________________
भाष्यगाथाः ४७१९-२८) तृतीय उद्देशः ।
१२७१ सो लब्भती अण्णगतो वि ताहे, दप्पट्टिया जे ण उ ते लभंती ॥ ४७२३ ॥ ___ यत्र ग्रामादौ सङ्केतः कृत आसीत् तत्र स शैक्षः प्राप्तः साधवस्तु न प्राप्ताः, ततो यद्येवं मन्यते-'मन्दार्थिनस्ते मद्विषये, मन्दप्रयोजना अत एव नायाताः' इति बुद्ध्या विपरिणतः, ते च साधवो यदि 'शठाः' वजिकादिप्रतिबन्धयुक्ता न भवन्ति, ग्लानादिकार्यव्याप्ततया नायाता इति भावः ततः स शैक्षः 'अन्यगतोऽपि' अन्यमाचार्यमभ्युपगतोऽपि तैः साधुभिर्लभ्यते । ये तु दर्पतः स्थितास्ते नैव तं लभन्ते, येन प्रव्राजितस्तस्यैवासौ शिष्य इति ॥ ४७२३ ॥
पंथे धम्मकहिस्सा, उवसंतो अंतरा उ अन्नस्स ।
अभिधारिंतो तस्स उ, इयरं पुण जो उ पव्वावे ॥४७२४ ॥ यद्यसौ येन साधुना सङ्केतो दत्तस्तदभिमुखं प्रस्थितः पथि गच्छन् अन्तराऽन्यस्य धर्मकथिनः समीपे धर्मकथामाकर्योपशान्तः, स च यद्यभिधारयन् गच्छति तदा तस्यैव' अभिधारि-10 तस्याभवति । इतरः पुनः-अनभिधारयिता तं यो धर्मकथी प्रव्राजयति तस्याभवति ॥४७२४॥ इदमेव व्याचष्टे
पुण्णेहिं पि दिणेहिं, उवसंतो अंतरा उ अण्णस्स ।
- अभिधारिंतो तस्स उ, इयरं पुण जो उ पवावे ॥४७२५ ॥ पूर्णैः अपिशब्दादपूर्णैरपि दिवसैः 'अन्तरा' पथि वर्तमानोऽन्यस्य सकाशे उपशान्तः सन् ।। यद्यभिधारयति 'प्रव्रजामि तावदहममीषां समीपे, परं पूर्वेषामेवाहं शिष्यः' एवमभिधारयन् तस्यैव पूर्वाचार्यस्याभवति । इतरो नाम यः पूर्वेषां विपरिणतस्तं यः प्रव्राजयति तस्यैव स शिष्यः ॥ ४७२५ ॥ नियमप्रदर्शनार्थमिदमाह
ण्हाणादिसमोसरणे, दट्टण वि तं तु परिणतो अण्णं ।
तस्सेव सो ण पुरिमे, एमेव पहम्मि वच्चंते ॥ ४७२६॥ खानादौ समवसरणे 'तं' पूर्वाचार्यं दृष्ट्वाऽपि यद्यन्यमेव 'परिणतः' प्रतिपन्नस्तदा तस्यैवासौ शिष्यो न पूर्वस्य । एवमेव पथि व्रजतामप्याभाव्या-ऽनाभाव्यविधिरवगन्तव्यः ॥ ४७२६ ॥ अथ कः संयतस्य गृहस्थस्य वा व्याघातो भवति ? इत्याह
गेलन तेणग नदी, सावय पडिणीय वाल महि वासं। इइ समणे वाघातो, महिगावजो उ सेहस्स ॥४७२७ ॥
25 ग्लानत्वं तस्य साधोरुत्पन्नम् , स्तेनका वा अन्तराले द्विविधाः, नदी वा पूर्णा, 'श्वापदा वा' व्याघ्रादयः पथि तिष्ठन्ति, प्रत्यनीको वा तं प्रतिचरन्नास्ते, 'व्यालाः' सर्पास्ते वा पथि गच्छन्तं जनं दशन्ति, महिका वा वर्ष वा पतितुमारब्धम्, "इय" एवं श्रमणे व्याघातः सम्भवति । शैक्षस्यापि महिकावर्जः सर्वोऽप्येष एव व्याघातो वक्तव्यः ॥ ४७२७ ॥ पूर्व खयं विपरिणतमाश्रित्य विधिरुक्तः, अथान्येन विपरिणामितस्य विधिमाह- 30
विप्परिणामियभावो, ण लब्भते तं च णो वियाणामो।।
विप्परिणामियकहणा, तम्हा खलु होति कायब्बा ॥ ४७२८ ॥ १ पुण्णा-ऽपुण्ण दिणेहि, तुवसंतो ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org