________________
१२७२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ विपरिणामितः -विवक्षिताचार्यादुचारितो भावो यम्य र विपरिणामितभावः, एवंविधः शैक्षो न लभ्यते, विपरिणामकस्य नाभवतीति भावः । शिष्यः प्राह-'तमेव' विपरिणामनं तावद् वयं न विजानीमः । सूरिराह—यत एवं भवतो जिज्ञासा तस्माद् विपरिणामनं विपरिणामितं तस्य कथना-प्ररूपणा कर्त्तव्या भवति ॥ ४७२८ ॥ तामेवाह
दिट्टमदिट्ट विदेसत्थ गिलाणे मंदधम्म अप्पसुते।।
णिप्फत्ति णत्थि तस्सा, तिविहं गरहं व से जणति ॥४७२९ ॥ शैक्षः कमप्याचार्यमभिधार्य गच्छन् मार्गे कमपि साधुं दृष्ट्वा पृच्छति-अमुके आचार्या भवद्भिः कदाचिद् दृष्टाः ? उताहो न दृष्टाः ?; एवं पृष्टे स साधुर्विपरिणामनबुद्ध्या भणतिकिं तैः करिष्यसि ?; शैक्षः प्राह-प्रव्रजितुकामोऽहं तेषां समीपे; एवं श्रुत्वा साधुदृष्टानपि 10 तान् 'न मया दृष्टाः' इति, अथवा खदेशस्थानपि भणति 'विदेशस्थास्ते' । एवमग्लानानपि 'ग्लानोऽसौ, ब्रज त्वमपि तस्य द्वितीयः'; अथवा ब्रवीति-यस्तस्य पार्थे प्रव्रजति सोऽवश्यं ग्लानो ग्लानवैयावृत्ये वा नित्यं व्याप्तो भवति । अथवा मन्दधर्माणस्ते, ततः किं तव मन्दधर्मता रोचते? । यद्वाऽसावल्पश्रुतः, त्वं च ग्रहण-धारणासमर्थस्तस्य पार्श्वे गतः किं करिष्यसि ?, त्वमेव वा तं पाठयिष्यसीति । अथवा तस्य शिष्याणां निष्पत्तिरेव नास्ति, यं 15 प्रव्राजयति स सर्वोऽपि प्रतिभज्यते म्रियते वेति । 'त्रिविधां वा' मनो-वाक्-कायभेदाद ज्ञानदर्शन-चास्त्रिभेदाद् वा त्रिप्रकारां गहीं वक्ष्यमाणरीत्या यदसौ करोति सा विपरिणामना मन्तव्या । एनां कुर्वतश्चतुर्गुरुकम् , न च तं शैक्षं लभते, अतो नैवं कथनीयम्, किन्तु दृष्टादिपदेषु सद्भावः कथनीयः ॥ ४७२९ ॥ कथम् ! इत्याह
जइ पुण तेण ण दिट्ठा, णेव सुया पुच्छितो भणति अण्णे । 20
जति वा गया विदेसं, तो साहइ जत्थ ते विसए ॥४७३०॥ योऽसौ शैक्षेण पृष्टस्तेन यदि ते सूरयो न दृष्टाः नैव श्रुतास्ततः पृष्टः सन् भणति-अहं न जानामि, 'अन्यान्' अपरान् साधून पृच्छ । अथ जानाति ततो यथावत् कथनीयम् । यदि विदेशं गतास्ततो यत्र ‘विषये' देशे ते वर्चन्ते तं कथयति । अथ नाल्याति हीनाधिकं वाऽऽख्याति ततो विपरिणामना भवति ।। ४७३० ।।।
सेसेसु उ सम्भावं, णातिक्खति मंदधम्मवजेसु ।
गृहयते सम्भावं, विप्परिणति हीणकहणे वा ॥ ४७३१ ॥ 'शेषेषु' ग्लानादिषु पदेषु मन्दधर्मवर्जेषु सद्भावं नाख्याति, यद्यप्यसौ ग्लानोऽल्पश्रुतो वा शिष्यनिष्पत्तिर्वा तस्य नास्ति तथापि तन्न कथनीयम् । यस्तु मन्दधर्मा पार्श्वस्थादिस्तत्र सद्भावः
कथनीयः, मा संसारपारगन्तुकामः सुतरां संसारे पतिष्यतीति कृत्वा । यस्तु ज्ञान-दर्शन-चारि30त्र-तपःसम्पन्नो वादी धर्मकथी सङ्ग्रहोपग्रहकारी तद्विषयं सद्भावं यदि 'गूहयति' अपलपति हीनकथनं वा करोति, अधिकमप्यन्याचार्येभ्यो हीनं कृत्वा कथयतीत्यर्थः, एषा विपरिणामना मन्तव्या ॥ ४७३१ ॥ अथ त्रिविधां गहाँ व्याचिख्यासुस्तत्वरूपं तावदाह१°नपि ग्लानानसौ वक्ति, 'बज मो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org