________________
भाष्यगाथाः ४७२९-३५] तृतीय उद्देशः ।
१२७३ सीसोकंपण गरिहा, हत्थ विलंबिय अहो य हकारे ।
वेला कण्णा य दिसा, अच्छतु णामं ण घेत्तव्वं ॥ ४७३२ ॥ गर्दा नाम शैक्षेण पृष्टः सन् शीर्षावकम्पनं करोति, हस्तौ वा धुनीते, विलम्बितानि वा करोति-हस्तौ वौष्ठौ वा विलम्बयतीत्यर्थः, यद्वा ब्रवीति-अहो ! प्रव्रज्या अहो! प्रव्रज्या, हाकारं वा करोति-हा! हा ! कष्टं यदेवं नष्टो लोकः, "वेल" त्ति नामापि तस्य न वर्ततेऽस्यां । वेलायां ग्रहीतुमिति, कर्णौ वा तदीयनामग्रहणे स्थगयति, यस्यां वा दिशि स तिष्ठति तस्यां न स्थातव्यमिति ब्रवीति, उपलक्षणत्वाद् अक्षिणी वा निमीलयति, यद्वा नामापि तस्य निरन्नैर्न ग्रहीतव्यम्, अत आस्तामेतद्विषयं पृच्छादिकमिति ।। ४७३२॥
नाणे दंसण चरणे, सुत्ते अत्थे य तदुभए चेव ।
अह होति तिहा गरहा, कायो वाया मणो वा वि ॥ ४७३३॥ 10 ज्ञाने दर्शने चारित्रे चेति त्रिविधा गर्दा भवति-तत्र ज्ञानगर्दा नाम नटपठितेनेव किं तदीयेन ज्ञानेन ?, दर्शनगर्दा तु मिथ्यादृष्टिनास्तिकप्रायोऽसौ, चारित्रगर्दा सातिचारचारित्रोऽचारित्री वाऽसौ । अथवा सूत्रेऽर्थे तदुभये चेति त्रिविधा गर्दा-तत्र सूत्रं तस्य शङ्कित-स्खलितम् अर्थ पुनरवबुध्यते १, यद्वाऽर्थ नावबुध्यते सूत्रं पुनरागच्छति २, उभयमपि वा तस्याविशुद्धं न जानाति वा किमपीति ३ । अथवा काय-वाङ्-मनोभेदात् त्रिधा गर्दा-तत्र कायगर्दा तेषा-15 माचार्याणां शरीरं हुण्डादिसंस्थानं विरूपं वा, वाग्गीं मन्मनं काहलं वा ते जल्पन्ति, मनोगर्दा न तेषां तथाविधमूहा-ऽपोहपाटवं न वा ग्रहण-धारणासामर्थ्य मिति । 'अथ' एषा त्रिविधा गर्दा भवति ॥ ४७३३ ॥ प्रकारान्तरेण गर्हामेवाह
पव्वयसि आम कस्स, त्ति सगासे अमुगस्स निद्दिढें।
आयपराधिगसंसी, उवहणति परं इमेहिं तु ॥ ४७३४॥ कोऽपि शैक्षः केनापि साधुना पृष्टः-प्रव्रजसि त्वम् ; स प्राह-आमम् ; 'कस्य सकाशे ?" इति पृष्टः सन् भूयोऽप्याह-अमुकस्याचार्यस्य समीपे, एवं 'निर्दिष्टे' उक्ते स साधुरात्मानं परस्मादधिकं शंसितुम्-आख्यातुं शीलमस्येत्यात्मपराधिकशंसी परममीभिर्वचनैरुपहन्ति ॥ ४७३४ ॥ तद्यथाअबहुस्सुताऽविसुद्धं, अधछंदा तेसु वा वि संसरिंग।
.25 ओसन्ना संसग्गी, व तेसु एकेकए दुन्नि ॥४७३५ ॥ ___ अहं बहुश्रुतः सोऽबहुश्रुतः, अहं विशुद्धपाठकः स पुनरविशुद्धपाठी, यद्वा यथाच्छन्दास्ते आचार्याः 'तैर्वा' यथाच्छन्दैः सह ते गाढतरं संसर्गिणः, गाथायां तृतीयार्थे सप्तमी, अवसन्ना वा ते] तैः सार्धं संसर्गिणो वा, एवं पार्श्वस्थादावपि एकैकस्मिन् भेदे द्वौ द्वौ दोषावेवमेव वक्तव्यौ ॥ ४७३५ ।। अथ काय-वाङ्-मनोगर्हामेव प्रकारान्तरेणाह
सीसोकंपण हत्थे, कण्ण दिसा अच्छि कायिगी गरिहा । १अच्छी नामं ताभा० । चूर्णिकृता विशेषचूर्णीकृता चायमेव पाठ आदतोऽस्ति ॥ २ शीर्ष कम्पयति, हस्तौ भा० ॥ ३ N» एतन्मध्यगतः पाठः भा० नास्ति ।
HTTPill
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org