________________
१२७४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २६
वेला अहो य ह त्ति य, णामं ति य वायिगी गरहा ॥४७३६ ॥ अह माणसिगी गरहा, सूतिजति णित्त-वत्तरागेहिं ।
धीरत्तणेण य पुणो, अभिणंदइ णेय तं वयणं ॥ ४७३७ ॥ शीर्षावकम्पनं हस्तविलम्बनं कर्णस्थगनम् अन्यस्यां दिशि स्थानम् अक्षिनिमीलनम् अनिमेष5 लोचनस्य वा क्षणमवस्थानम् एषा सर्वाऽपि कायिकी गरे । यत्तु अस्यां वेलायां नाम न ग्रहीतव्यम् अहो! कष्टम् हाहाकारकरणम् नाम च तस्य कदाऽपि न ग्रहीतव्यमित्यादिभाषणं सा वाचिकी गर्दा ॥ ४७३६ ॥
'अथ' अनन्तरं मानसिकी गर्दा मनसि तमाचार्य जुगुप्सते । कथमेतद् ज्ञायते ? इत्याहनेत्र-वक्रयोः सम्बन्धिनो ये रागाः-मुकुलन-विच्छायीभवनादयो विकारास्तैः सूच्यते मानसिकी 10 गहेंति । यद्वा 'प्रवजामि' इति भणिते 'साध्विदम् , कृत्यमेतद् भव्यानाम्' इत्यादिवचोभिर्नैव तदीयं वचनमभिनन्दते, धीरतया वा तूष्णीक आस्ते । एवमन्यतरस्मिन् गर्दाप्रकारे कृते तस्य शङ्का भवति-अवश्यमकार्यकारी स आचार्यादिः सम्भाव्यते, न चामी साधवोऽलीकं भाषन्ते, अहमपि तत्र गत आत्मानं नाशयिष्यामीति ॥ ४७३७ ॥
एताणि य अण्णाणि य, विप्परिणामणपदाणि सेहस्स । 16
उवहि-णियडिप्पहाणा, कुव्वंति अणुज्जुया केई ॥ ४७३८ ॥
उवहि-णियदिप ___ 'एतानि च' अनन्तरोक्तानि 'अन्यानि च' द्रव्य-क्षेत्र-काल-भावैः शैक्षस्य विपरिणामनपदानि भवन्ति-तत्र द्रव्यतो मनोज्ञाहारादि ददाति, क्षेत्रतः प्रवात-निवाते मनोऽनुकूले प्रदेशे तं स्थापयति, कालतो वेलायामेव भोजयति, भावतस्तस्याकर्षणार्थ हित-मधुरमुपदेशं ददाति । एवं
केचिद् 'अनृजुकाः' शठा उपधिः-परवञ्चनाभिप्रायो निकृतिः-कैतवार्थप्रयुक्तवचना-ऽऽकारा20 च्छादनं ते प्रधाने येषां ते तथाविधा विपरिणामनपदानि कुर्वन्ति ॥ ४७३८॥ उपसंहरन्नाह
एएसामन्नयरं, कप्पं जो अतिचरेज लोभेण । [वृ.भा. १४०२]
थेरे कुल गण संघे, चाउम्मासा भवे गुरुगा ॥ ४७३९॥ 'एतेषाम्' अव्याहतादिद्वारकलापप्रतिपादितानां कल्पानामन्यतरं 'कल्पं' विधि 'यः' आचार्यादिलोभदोषेण 'अतिचरेत्' अतिक्रामेत् तं सम्यग् ज्ञात्वा कुल-गण-सङ्घस्थविरैः कुलादिसमवायेन 25 वा तस्य पार्थात् तं शैक्षमाकृष्य चत्वारो मासा गुरुकास्तस्य प्रायश्चितं दातव्यम् । अथ स्थविरैः समवायेन वा भणितोऽपि तं शैक्षं न समर्पयति ततः कुल-गण-सङ्घबाह्यः क्रियते ॥ ४७३९ ॥ सूत्रम्---
अत्थि या इत्थ केइ उवस्सयपरियावन्नए अचित्ते परिहरणारिहे सच्चेव उग्गहस्स पुव्वाणुपणवणा चिटइ अहालंदमवि उग्गहे २६ ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org