________________
तृतीय उद्देशः ।
भाष्यगाथाः ४७३६-४४ ]
अस्य सम्बन्धमाह -
असहीणेसु वि साहम्मितेसु इति एस उग्गहो वृत्तो । अयमपरो आरंभो, गिहिविजढे उग्गहे होई || ४७४० ॥ 'अखाधीनेष्वपि' क्षेत्रान्तरं गतेषु साधर्मिकेषु इत्येषोऽवग्रहः प्रोक्तः । अयं पुनरपरः प्रकृतसूत्रस्यारम्भो गृहिभिर्विजढः - परित्यक्तो यः प्रतिश्रयस्तद्विषयेऽवग्रहे भवति ॥ ४७४० ॥
5
अनेन सम्बन्धेनायातस्यास्य व्याख्या— अस्ति च 'अत्र' अनन्तरसूत्रप्रस्तुते प्रतिश्रये, किम् ? 'किञ्चिद्' आहारा -ऽर्थजातादिकं गृहस्थसत्कं उपाश्रये पर्यापन्नं विस्मृतं परित्यक्तं वा उपाश्रयपर्यापन्नम्, ‘अचित्तं' प्राशुकम्, 'परिहरणार्हं' साधूनां परिभोक्तुं योग्यम्, तत्र सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति, तत्रोपाश्रये तिष्ठद्भिः पूर्वमेव 'अनुजानीत प्रायोग्यम्' इत्येवं यदवग्रहोऽनुज्ञापितः सैवानुज्ञापना पश्चादुपाश्रयपर्यापन्नग्रहणे व्यवतिष्ठते न पुनरभिनवमनुज्ञापनं कर्त्तव्यमिति 10 भावः । कियन्तं कालम् ? इत्याह – 'यथालन्दमपि' मध्यमलन्दमात्रमपि कालं यावदवग्रह इति सूत्रार्थः ॥ अथामुमेव सूत्रार्थं भाष्यकृत् प्रतिपादयति
Jain Education International
१२७५
आहारो उवही वा, आहारो भुंजणारिहो कोयी ।
दुविपरिहारअरिहो, उवही वि य कोयि ण वि कोयि ॥ ४७४१ ॥ st सूत्रे किञ्चिणेन आहार उपधिर्वा गृहीतः, परिहरणार्हग्रहणेन तु स एव परिभोगार्हः । 15 तत्राहारः कश्चिद् भोजनाहों भवति कश्चिच्च न भवतीति, उपधिरपि कश्चिद् द्विविधपरिहारस्यधारणा - परिभोगरूपस्यार्हो भवति कश्चिच्च न भवति ॥ ४७४१ ॥ तथाहिसंसत्ताssसव पिसियं, आहारो अणुवभोज इच्चादी |
झुसिरतिण- वच्च गादी, परिहारे अणरिहो उवही ॥ ४७४२ ॥
'संसक्तं' द्वीन्द्रियादिजन्तुमिश्रं भक्त - पानं 'आसवः' मद्यं 'पिशितं' पुद्गलम् इत्यादिक 20 आहारः 'अनुपभोज्य : ' साधूनामुपभोक्तमयोग्यः, शुषिरतृण- वल्ककादिक उपधिरपि 'परिहारस्य ' परिभोगस्यानहों मन्तव्यः, अर्थादापन्नं ओदनादिक आहारो वस्त्रादिकश्चोपधिः परिभोगाई इति ॥ ४७४२ ॥
ठातें अणुण्णवणा, पातोग्गे होइ तप्पढमयाए ।
सो चेव उग्गहो खलु, चिट्टा कालो उ लंदक्खा ॥ ४७४३ ॥ साधुभिः प्रतिश्रये तिष्ठद्भिस्तत्प्रथमतया या प्रायोग्यस्यानुज्ञापना कृता भवति स एवोपाश्रयपर्यापन्नस्यापि ग्रहणेऽवग्रहस्तिष्ठति, न पुनर्भूयोऽनुज्ञाप्यते । या तु सूत्रे 'लन्दाख्या' लन्द इत्यभिधानं स कालः प्रतिपत्तव्य इति ॥ ४७४३ ॥
कृता सूत्रव्याख्या भाष्यकृता । सम्प्रति निर्युक्तिविस्तरः -
पुव्वि वसा दुविहे, दव्वे आहार जाव अवरण्हे ।
उवहिस्स ततियदिवसे, इतरे हियम्मि गिण्हंति ॥ ४७४४ ॥
·
१० दिजीव मिश्रं कां० ॥ २ गहियस्मि जयणाए इत्येव पाटोsस्मत्सविधवर्त्तिषु निखिलेष्वप्यादषु दृश्यते तथापि गहिरि गिण्यंति इत्येव पाठः टीकानुसारेणास्माभिर्विहित इति ॥
For Private & Personal Use Only
25.
30
www.jainelibrary.org