SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २६ 'पूर्व प्रथमं तिष्ठन्त एव वृषभाः समन्तादुपाश्रयमवलोकयन्तो द्विविधे द्रव्ये उपयोग प्रयच्छन्ति । द्विविधं द्रव्यं नाम-आहार उपधिश्च । तत् प्राघूर्णकादयो गृहिणो विस्मृत्य परित्यज्य वा गता भवेयुः, तेषु गतेषु यावदपरालो न भवति तावदाहारं न गृह्णन्ति, परतस्तु गृहन्ति । उपधेस्तु तृतीये दिवसे गते ग्रहणं कुर्वन्ति । 'इतरद् नाम' अर्थजातं तत् कदाचिद5 गारिणां विस्मृतं भवेत् तदेकान्ते निक्षेपणीयम् । “गहियम्मि गिण्हंति" त्ति यदि धनिकादिभिः गृहीतः-प्रारब्धः प्रातिवेश्मिको नष्टो भवेत् तदा तत्रापि यत् तेषां विस्मृतं तद् यथोक्तविधिना गृह्णन्ति । एष नियुक्तिगाथासमासार्थः ॥ ४७४४ ॥ साम्प्रतमेनामेव विवृणोति पायं सायं मज्झतिए व वसभा उवस्सय समंता। पेहंति अपेहाए, लहुगो दोसा इमे तत्थ ॥ ४७४५॥ 10 'प्रातः' प्रभाते 'सायं' सन्ध्यायां 'मध्यान्ते वा' मध्याह्नसमये दृषभा उपाश्रयं समन्तात् प्रत्युपेक्षन्ते । अप्रत्युपेक्षमाणानां लघुको मासः, दोषाश्चमे 'तत्र' अप्रत्युपेक्षणे भवन्ति ।।४७४५॥ साहम्मि अण्णधम्मिय, गारत्थिणि खिवण वोसिरण रज । गिण्हण-कवण-ववहार-पच्छकडुड्डाह-णि व्विसए ॥ ४७४६ ॥ 'साधर्मिणी' संयती 'अन्यधर्मिणी' परतीर्थिका ‘अगारस्था' अविरतिका, एताः प्रद्विष्टाः 16 सत्यः साधुप्रतिश्रयसमीपेऽर्थजातस्य निक्षेपणं कुर्युः, यद्वा बालकं व्युत्सृज्य गच्छेयुः, परीषहपराजितो वा कोऽपि संयतो रज्जूद्वन्धनेन नियेत, तत्र राजपुरुषैर्शाते सति ग्रहणा-ऽऽकर्षण-व्यवहार-पश्चात्कृतोड्डाह-निर्विषयाज्ञापनादयो दोषा भवन्ति ॥ ४७४६॥ इदमेव भावयति चोदणकुविय सहम्मिणि, परउत्थिणिगी उ दिद्विरागेण । अणुकंप जदिच्छा वा, छुभिज बालं अगारी वा ॥ ४७४७॥ साधर्मिणी काचित् खण्डितशीला गर्भवती ‘उड्डाहोऽयम्' इति मन्यमानैः साधुभिर्गाढं निर्भय॑ रजोहरणादिलिङ्गबहिःकृता भवेत् , ततः सा 'मदीयं लिङ्गमपहृतम्' इति मन्यमाना तया नोदनया कुपिता सती खमपत्यजातं तदाश्रयसमीपे परित्यजेत् । परतीर्थिनी तु 'दृष्टिरागेण' 'माऽस्माकमपयशःप्रवादो भविष्यति' इति कृत्वा संयतानामुपाश्रयसन्निधौ बालकं व्युत्सृजेत् ; 26 वरं लोकश्चिन्तयिष्यति-एतैरेवैतद् जनितमिति । अथवा अगारी काचिदनुकम्पया यदृच्छया वा बालकं तत्र प्रक्षिपेत् । तत्र 'अनुकम्पया नाम' दुष्कालादौ काचिद् दुःस्थयोषिद् जीवनाय खापत्यं तदाश्रयान्तिके त्यजति-वरमेतेऽनुकम्पापरायणा अमुं बालकं शय्यातरस्यापरस्य वा ईश्वरस्य गृहे निक्षेप्स्यन्तीति । 'यदृच्छया' अभिसन्धिमन्तरेणैवमेव व्युत्सृजति ॥ ४७४७ ॥ हाउं वै जरेउं वा, अचदंता तेणगाति वत्थादी। एएहिं चिय जणियं, तहिं च दोसा उ जणदिढे ॥ ४७४८॥ स्तेनकादयो वस्त्रादिकं हातुं वा जरीतुं वा 'अचयन्तः' अशक्नुवन्तः साधूनां प्रतिश्रयस१°न्ति इति निर्यु का० ॥ २ क्षणायां भ° का० ॥ ३ व हरेउं भा० । एतदनुसारेणैव भा० टीका, रश्यतो टिप्पणी ४ । विशेषचूर्णिकृताऽयमेव पाठः स्वीकृतोऽस्ति ॥ ४ वा हर्तुं वा 'अच° भा० ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy