________________
भाष्यगाथाः ४७११-१८] तृतीय उद्देशः ।
१२६९ तं चेव पुव्वभणियं, परितावण-सेहभंगाइ ॥ ४७१४ ॥ इतरे नाम-येषां समीपे प्रेष्यते यदि ते न प्रतीच्छन्ति तदा चतुर्गुरुकाः, यच्च ते शैक्षव्यापृताः प्राप्नुवन्ति तन्निष्पन्नं तेषामप्रतीच्छतां प्रायश्चित्तम् । किं पुनस्तद् यत् ते प्राप्नुवन्ति ? इत्याह-तदेव पूर्वभणितं परितापन-शैक्षभङ्गादिकमत्र दोषजातं मन्तव्यम् । किमुक्तं भवति?ग्लानोऽप्रतिचर्यमाणः परिताप्येत, शैक्षो वैयावृत्येऽविधीयमाने प्रतिभज्येत, आदिशब्दाद्छ ग्लानस्य मरणं वा भवेत् ॥ ४७१४ ॥
संखडिए वा अट्ठा, अमुंडियं मुंडियं व पेसंती ।
वयमाणे एग संघाडए य छप्पऍ न लभंति ॥ ४७१५॥ सङ्खडि:-प्रकरणं तस्या वाऽर्थीय मनोज्ञाहारलम्पटतया क्वापि ग्रामे व्रजन्तः सागारिकमिति कृत्वा शैक्षममुण्डितं मुण्डितं वा प्रेषयन्ति । तत्रापि "वयमाणि" त्ति एकाकितया प्रेषणेन एकसा- 10 धुना सङ्घाटकेन च षट् प्रकारा भवन्ति । एतैः षड्भिरपि प्रेषयन्तो न लभन्ते ॥ ४७१५ ॥ इदमेव व्याख्याति
होहिंति णवग्गाई, आवाह-विवाह-पव्वयमहादी । __ सेहस्स य सागरियं, विद्दाहिति मा व पेसिति ॥ ४७१६ ॥ इह शैक्षः केषाश्चिदुपस्थितः, तत्र च आवाह-विवाह-पर्वतमहादीनि प्रकरणानि 'नवाग्राणि' 15 प्रत्यासन्नानि भविष्यन्ति । आवाहः-वध्वा वरगृहानयनम् , विवाहः-पाणिग्रहणम् , पर्वतमहः प्रतीतः, आदिशब्दात् तडाग-नदीमहादिपरिग्रहः । शैक्षस्य च तत्र 'सागारिकम्' उत्प्रव्राजनभयम् , यद्वा यथेष शैक्षोऽत्र स्थास्यति तदा सङ्खडिभोजनगृद्धः ‘मा विद्रास्यति' मा विन
यति, यदि च वयमनेनैव सह गच्छामस्ततः सङ्खडेः स्फिटामः अत एनमन्यत्र प्रेषयाम इति विचिन्त्य षभिः प्रकारेस्तं प्रेषयन्ति न च लभन्ते, येषामन्तिके प्रेषयन्ति तेषामेवासावा- 20 भवतीति ॥ ४७१६ ॥ गतं 'प्रतिषिद्धे व्रजति कथं कल्पो विधीयते ?' इति द्वारम् । सम्प्रति 'सङ्गारदत्ते कथं कल्पो विधीयते ?' (गा० ४६६२) इति द्वारमाह
गिहियाणं संगारो, संगारं संजते करेमाणे ।
__ अणुमोयति सो हिंसं, पव्वावितों जेण तस्सेव ॥ ४७१७॥ गृहिणां सम्बन्धी यः ‘सङ्गारः' 'युष्मदन्तिकेऽस्माभिरियतः कालादूर्द्ध प्रव्रज्या ग्रहीतव्या' 35 इति सङ्केतस्तं प्रतीच्छन् संयतः वयं च तैः सार्द्ध 'सङ्गारं' 'अहममुस्मिन् दिने युष्मान् प्रवाजयिष्यामि' इति लक्षणं कुर्वन् 'हिंसां' यावदसौ न प्रव्रजति तावन्तं कालं षट्कायविराधनालक्षणामनुमोदयति । स च शैक्षस्तं प्रति विपरिणतो येन प्रव्राजितस्तस्यैवाभवति न सके. तदायिन इति ॥ ४७१७ । किञ्च
विप्परिणमइ सयं वा, परओ ओसण्ण अण्णतित्थी वा ।
मोत्तुं वासावासं, ण होइ संगारतो इहरा ॥ ४७१८ ॥ सङ्केतकरणानन्तरं स शैक्षः स्वयं वा विपरिणमति, 'परतो वा' परेण-खजनादिना स विप१°म्पटाः का भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org