Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१२७८ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २६ परैरपरिगृहीते भूभागे इति ॥ ४७५२ ॥
अप्पडिचर-पडिचरणे, दोसा य गुणा य वणिया एए । __एतेण सुत्त ण कतं, सुत्तनिवातो इमो तत्थ ॥ ४७५३ ॥ 'अप्रतिचरण-प्रतिचरणयोः' प्रतिश्रयस्याप्रत्युपेक्षण-प्रत्युपेक्षणयोर्यथाक्रममेते दोषा गुणाश्च 5 वर्णिताः, परमेतेनार्थेन सूत्रं 'न कृतं' न विहितम् , किन्तु सामाचारीप्रकाशनार्थं सर्वमेतद् व्याख्यातमिति । सूत्रनिपातः पुनरयं 'तत्रेति' सूत्रनिपातस्यैवोपदर्शनार्थः ॥ ४७५३ ॥
आगंतारठियाणं, कजे आदेसमादिणो केई।।
वसिउं विस्समिउं वा, छड्डित्तु गया अणाभोगा ॥ ४७५४ ॥ इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तद् आगन्तुकागारं तत्र 'कार्ये' कारण विशेषतः 10स्थितानां प्रकृतसूत्रमवतरति । कथम् ? इत्याह-आदेशः-प्राघूर्णकस्तदादयः केचित् पथिका
आगन्तुकागारे रजन्यां वासमुपगता दिवा वा भोजनार्थ विश्रामं कृतवन्तः, तत उषित्वा विश्रम्य वा किश्चिद् द्रव्यजातमनाभोगात् परित्यज्य गताः ॥ ४७५४ ॥ किं पुनस्तत् ? इत्याह
समिई-सत्तुग-गोरस-सिणेह-गुल-लोणमादि आहारे। 18
ओहे उवग्गहम्मि य, होउवही अट्टजातं वा ॥ ४७५५ ॥ इहाहार उपधिश्चेति द्विविधं द्रव्यं भवति । तत्राहारः 'समिति-सक्तु-गोरस-स्नेह-गुड-लवणादिकः' समितिः-कणिका, शेषं प्रतीतम् । उपधिस्तु द्विधा भवति-ओघे उपधिः उपग्रहे वा, ओघोपधिरुपग्रहोपधिश्चेत्यर्थः । 'अर्थजातं' द्रव्यं तद् वा परित्यक्तं भवेत् ॥ ४७५५ ॥ तत्राहारोपधिविषयं तावद् द्विविधमाह
काऊणमसागरिए, पडियरणाऽऽहार जाव अवरण्हे ।
एमेव य उवहिस्स वि, असुण्ण सेधाइ दूरे य ॥ ४७५६ ॥ आहारमसागारिके प्रदेशे कृत्वा तावत् प्रतिचरणं कुर्वते यावदपराह्नः सञ्जायते । एवमेवोपँधेरपि प्रतिचरणं कर्त्तव्यम् , नवरमशून्ये भूभागे संस्थापनीयः । शैक्षादयश्च द्विविधस्यापि द्रव्यस्य दूरे कर्तव्याः ॥ ४७५६ ।। किं कारणमाहारमपराहं यावत् प्रतिचरन्ति ? इत्युच्यते
वोच्छिजई ममत्तं, परेण तेसिं च तेण जति कजं ।
गिण्हता वि विसुद्धा, जति विण वोच्छिज्जती भावो ॥४७५७ ॥ अपराह्मात् परतस्तेषां पथिकानामाहारे ममत्वं व्यवच्छिद्यते, 'तेषां च' साधूनां यदि 'तेन' आहारेण कार्यं भवति ततो गृहन्तोऽपि विशुद्धाः, यद्यपि च भावस्तेषां तदुपरि न व्यवच्छिद्यते तथाप्यपरालादूर्द्ध गृह्णतां न कश्चिद् दोषः । उपधिं तु तृतीयदिवसे पूर्णे गृह्णन्ति, एतावता 30 तद्विषयममत्वस्य व्यवच्छेदात् ॥ ४७५७ ॥
१ तेन पर्यन्तसूत्रं डे. मो० ॥ २ तं वा द्रव्यमुच्यते ॥ ४७५५ ॥ तत्रा भा० ॥ ३ का. विनाऽन्यत्र-पधेरप्यशून्ये भूभागे स्थापनं कर्तव्यम् । शैक्षा भा० । पधिरपि [अ] शून्ये भूभागे संस्थापनीयः । शैक्षा ताटी. मो, डे० ॥
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444