SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ १२७८ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २६ परैरपरिगृहीते भूभागे इति ॥ ४७५२ ॥ अप्पडिचर-पडिचरणे, दोसा य गुणा य वणिया एए । __एतेण सुत्त ण कतं, सुत्तनिवातो इमो तत्थ ॥ ४७५३ ॥ 'अप्रतिचरण-प्रतिचरणयोः' प्रतिश्रयस्याप्रत्युपेक्षण-प्रत्युपेक्षणयोर्यथाक्रममेते दोषा गुणाश्च 5 वर्णिताः, परमेतेनार्थेन सूत्रं 'न कृतं' न विहितम् , किन्तु सामाचारीप्रकाशनार्थं सर्वमेतद् व्याख्यातमिति । सूत्रनिपातः पुनरयं 'तत्रेति' सूत्रनिपातस्यैवोपदर्शनार्थः ॥ ४७५३ ॥ आगंतारठियाणं, कजे आदेसमादिणो केई।। वसिउं विस्समिउं वा, छड्डित्तु गया अणाभोगा ॥ ४७५४ ॥ इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तद् आगन्तुकागारं तत्र 'कार्ये' कारण विशेषतः 10स्थितानां प्रकृतसूत्रमवतरति । कथम् ? इत्याह-आदेशः-प्राघूर्णकस्तदादयः केचित् पथिका आगन्तुकागारे रजन्यां वासमुपगता दिवा वा भोजनार्थ विश्रामं कृतवन्तः, तत उषित्वा विश्रम्य वा किश्चिद् द्रव्यजातमनाभोगात् परित्यज्य गताः ॥ ४७५४ ॥ किं पुनस्तत् ? इत्याह समिई-सत्तुग-गोरस-सिणेह-गुल-लोणमादि आहारे। 18 ओहे उवग्गहम्मि य, होउवही अट्टजातं वा ॥ ४७५५ ॥ इहाहार उपधिश्चेति द्विविधं द्रव्यं भवति । तत्राहारः 'समिति-सक्तु-गोरस-स्नेह-गुड-लवणादिकः' समितिः-कणिका, शेषं प्रतीतम् । उपधिस्तु द्विधा भवति-ओघे उपधिः उपग्रहे वा, ओघोपधिरुपग्रहोपधिश्चेत्यर्थः । 'अर्थजातं' द्रव्यं तद् वा परित्यक्तं भवेत् ॥ ४७५५ ॥ तत्राहारोपधिविषयं तावद् द्विविधमाह काऊणमसागरिए, पडियरणाऽऽहार जाव अवरण्हे । एमेव य उवहिस्स वि, असुण्ण सेधाइ दूरे य ॥ ४७५६ ॥ आहारमसागारिके प्रदेशे कृत्वा तावत् प्रतिचरणं कुर्वते यावदपराह्नः सञ्जायते । एवमेवोपँधेरपि प्रतिचरणं कर्त्तव्यम् , नवरमशून्ये भूभागे संस्थापनीयः । शैक्षादयश्च द्विविधस्यापि द्रव्यस्य दूरे कर्तव्याः ॥ ४७५६ ।। किं कारणमाहारमपराहं यावत् प्रतिचरन्ति ? इत्युच्यते वोच्छिजई ममत्तं, परेण तेसिं च तेण जति कजं । गिण्हता वि विसुद्धा, जति विण वोच्छिज्जती भावो ॥४७५७ ॥ अपराह्मात् परतस्तेषां पथिकानामाहारे ममत्वं व्यवच्छिद्यते, 'तेषां च' साधूनां यदि 'तेन' आहारेण कार्यं भवति ततो गृहन्तोऽपि विशुद्धाः, यद्यपि च भावस्तेषां तदुपरि न व्यवच्छिद्यते तथाप्यपरालादूर्द्ध गृह्णतां न कश्चिद् दोषः । उपधिं तु तृतीयदिवसे पूर्णे गृह्णन्ति, एतावता 30 तद्विषयममत्वस्य व्यवच्छेदात् ॥ ४७५७ ॥ १ तेन पर्यन्तसूत्रं डे. मो० ॥ २ तं वा द्रव्यमुच्यते ॥ ४७५५ ॥ तत्रा भा० ॥ ३ का. विनाऽन्यत्र-पधेरप्यशून्ये भूभागे स्थापनं कर्तव्यम् । शैक्षा भा० । पधिरपि [अ] शून्ये भूभागे संस्थापनीयः । शैक्षा ताटी. मो, डे० ॥ 20 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy