________________
भाष्यगाथाः ४७५३-६२] तृतीय उद्देशः ।
१२७९ अव्वोच्छिन्ने भावे, चिरागयाणं पि तं पयंसिति ।
पण्णवणमणिच्छंते, कप्पं तु करेंति परिभुत्ते ॥ ४७५८॥ अथ तेषामद्यापि भावो न व्यवच्छिद्यते । ततोऽव्यवच्छिन्ने भावे तेषां ववस्त्राणि गवेषयतां चिरादायातानामपि 'तम्' उपधिं प्रदर्शयन्ति, एवं च तेषां प्रज्ञापनां कुर्वन्ति-अस्माभिरेतानि वस्त्राणि स्वीकृतानि, ततोऽनुग्रहं मन्यमानाः साधूनामनुजानीथ । एवमुक्ते यद्यनुजानते ततः । सुन्दरम् , अथ नेच्छन्त्यनुज्ञातुं तानि च वस्त्राणि परिभुक्तानि ततोऽप्कायवधरक्षणार्थ कल्पं कुर्वन्ति ॥ ४७५८ ॥ अथार्थजातविषयं विधिमाह
पञ्चोनियत्तपुट्ठा, करादि दाएंति एत्थ णं पेधे ।
दरिसिंति अपिच्छंते, को पुच्छति केण ठवियं च ॥ ४७५९ ॥ इहोपाश्रये यद्यर्थजातं पतितमुपलभ्यते तदा तदप्यल्पसागारिके स्थाप्यते, शैक्षादयश्च दूरे 10 कर्तव्याः, प्रत्यवनिवृत्तैश्च-भूयस्तत्रैव समायातैर्गृहिभिः पृष्टाः-'कुत्रास्माकं तदर्थजातं तिष्ठति ?' ततः 'करादिना' हस्ताङ्गुल्यादिसंज्ञया दर्शयन्ति-अत्र प्रदेशे “णं" एनं प्रेक्षध्वम् । अथ ते न पश्यन्ति ततः खयमेव तदर्थजातं दर्शयन्ति । यदि ते पृच्छेयु:-केनेदमत्र स्थापितम् ?; ततो वक्तव्यम्-कः पृच्छति ? केन स्थापितं च ? इति ॥ ४७५९ ॥ एवं तावदुपाश्रयपर्यापन्ने आहारादौ विधिरुक्तः । अथ शय्यातरादिगृहपर्यापन्ने विधिमाह
15 भडमाइभया णटे, गहिया-ऽगहिएसु तेसु सज्झादी।
गिण्हंति असंचइयं, संचइयं वा असंथरणे ॥ ४७६० ॥ भटाः-राजपुरुषास्तदादिभयाद् नष्टे शय्यातरादौ अथवा सज्झिकाः-प्रातिवेश्मिकास्ते गृहीतृभिः-धनिकैः आगृहीताः-ऋणं दापयितुमारब्धास्ततस्तेषु सम्झिकादिषु नष्टेषु तत्र य आहारोऽसञ्चयिकः-दधि-घृतादिस्तं गृह्णन्ति । अथासंस्तरणं ततः 'सञ्चयिकमपि' अवगाहिमादिकं 20 गृह्णन्ति ॥ ४७६० ॥
साविक्खेतर णडे, एमेव य होइ उवहिगहणं पि।
पञ्चागएसु गहणं, भुंजति दिण्णेवमढे वि ॥ ४७६१ ॥ प्रातिवेश्मिकादिः सापेक्षो वा नष्टो भवेद् 'इतरो वा' निरपेक्षः । सापेक्षो नाम-भूयस्तत्रैवागन्तुकामः, तद्विपरीतो निरपेक्षः । तत्रोभयस्मिन्नपि नष्टे 'एवमेव' आहारवदुपधेरपि ग्रहणं कुर्वन्ति । सापेक्षनष्टेषु च प्रत्यागतेषु कथयन्ति, कथिते च दत्तमनुज्ञातं सत् परिभुञ्जते । ये तु निरपेक्षनष्टास्तेषु निर्विवादमेव परिभुञ्जते । एवं "अटे वि" ति अर्थजातेऽपि ग्रहणं मन्तव्यम् ॥ ४७६१ ॥ अत्रैवाक्षेप-परिहारावाह
पाउग्गमणुण्णवियं, जति मण्णसि एवमतिपसंगो त्ति ।
आउरभेसज्जुवमा, तह संजमसाहगं जंतु ॥ ४७६२॥ यद्येवं मन्यसे-'प्रायोग्यं' साधूनामुचितं यत् तदेव साधुभिः पूर्वमनुज्ञापितम् न पुनः 'अप्रायोग्यम्' अर्थजातादि, तत एवमनुज्ञापितमप्यर्थजातं गृह्णतामतिप्रसङ्गो भवति । तत्राभिधीयतेनैकान्तेनार्थजातमप्रायोग्यम् , यत आतुरः-रोगी तस्य भेपजोपमा कर्तव्या-यथाऽऽतुरस्या
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org