________________
१२८० सनियुक्ति-लघुभाष्य-वृत्तिकै बृहत्कल्पसूत्रे अवग्रहप्रकृते सूत्रम् २७ भिनवोदीर्ण ज्वरादौ यदौषधं प्रतिपिध्यते तदेवान्यस्यामवस्थायां तस्यैवानुज्ञायते, एवमर्थजातमपि पुष्टकारणाभावे प्रतिषिद्धम् , यत्तु दुर्भिक्षादौ संयमस्य साधकं तदनुज्ञातमेव ॥ ४७६२ ॥ सूत्रम्
से वत्थूसु अबावडेसु अबोगडेसु अपरपरिग्गहिएसु अमरपरिग्गहिएसु सच्चेव उग्गहस्स पुवाणुण्णवणा
चिट्टइ अहालंदमवि उग्गहे २७ ॥ अस्य सम्बन्धमाह
गिहिउग्गहसामिजढे, इति एसो उग्गहो समक्खातो।
सामिजढे अजढे वा, अयमण्णो होइ आरंभो ॥ ४७६३ ॥ 10 खामिना जढः-परित्यक्तो यो गृहिणां सम्बन्धी अवग्रहस्तद्विषय इत्येषः 'अवग्रहः' ग्रहणविधिः समाख्यातः । अयं पुनः 'अन्यः' प्रस्तुतसूत्रस्यारम्भः खामिना त्यक्तेऽत्यक्ते वा अवग्रहे भवति ॥ ४७६३ ॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-"से" तस्य निर्ग्रन्थस्य 'वास्तुषु' गृहेषु । कथम्भू
तेषु ? 'अव्याहतेषु' शटित-पतिततया व्यापारविरहितेषु, 'अव्याकृतेषु' दायादादिभिरविभक्तेषु, 15 अथवाऽतीतकाले केनाप्यनुज्ञातमिति न ज्ञायते यत् तदव्याकृतं तेषु, तथा 'अपरपरिगृहीतेषु' परैः-अन्यैरनधिष्ठितेषु, 'अमरपरिगृहीतेषु' देवैः खीकृतेषु; सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमप्यवग्रहे । किमुक्तं भवति ?-यावन्तं कालं तानि वास्तूनि तेषां पूर्वखामिनामवग्रहे वर्तन्ते तावन्तं कालं सैव पूर्वानुज्ञा तिष्ठति, न पुनर्भूयोऽप्यवग्रहोऽनुज्ञापनीय इति सूत्रार्थः ॥ सम्प्रति नियुक्तिविस्तरः
खित्तं वत्, सेतुं, केतुं साहारणं च पत्तेयं ।
__ अव्वावडमन्वोअडमपरममरपरिग्गहे चेव ॥ ४७६४ ॥ इह वास्तु सामान्यतो द्विधा-क्षेत्रं 'वास्तु च' गृहं चेत्यर्थः । क्षेत्रं द्विधा-सेतु केतु च । यदरहट्टजलेन सिच्यते तत् सेतु, वृष्टिजलेन तु यन्निष्पाद्यते तत् केतु । गृहं पुनः
खातोच्छितोभयभेदात् त्रिधा वक्ष्यते । क्षेत्रं गृहं चोभयमपि द्विधा-साधारणं प्रत्येकं च । 25 साधारणं-बहूनां सामान्यम् , प्रत्येकम्-एकखामिकम् । सूत्रपदानि पश्चार्धेन सन्हीतुमाहअव्यापृतमव्याकृतमपरपरिगृहीतममरपरिगृहीतं चेति ॥ ४७६४ ॥ अथ साधारणपदं विवृणोति
दाइय-गण-गोट्ठीणं, सेणी साहारणं व दुगमादी ।
वत्थुम्मि एत्थ पगयं, ऊसित खाते तदुभए य ॥ ४७६५ ॥ १°त्रार्थः ॥ अथ निर्यु का० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org