SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ 15 भाष्यगाथाः ४७६३-६९] तृतीय उद्देशः । १२८१ दायाद-गण-गोष्ठीनां श्रेणीनां वा "दुगमाइ" ति द्वि-त्रिप्रभृतिसङ्ख्याकानां द्वि-व्यादिजनप्रतिबद्धानां वा यत् क्षेत्रं वास्तु वा सामान्यं तत् साधारणमुच्यते । अत्र तु वास्तुनाऽधिकारः, न क्षेत्रेण । तच्च वास्तु विधा-उच्छ्रितं खातं तदुभयं च । 'उच्छ्रितं' प्रासादः, 'खातं' भूमिगृहम् , 'तदुभयम्' अधोभूमिगृहयुक्तः प्रासादः ॥ ४७६५ ॥ अव्यापृतादिपदानि व्याचष्टे सडिय-पडियं ण कीरइ, जहिगं अव्वावडं तयं वत्थु । अव्वोगडमविभत्तं, अणहिट्ठियमण्णपक्खेणं ॥ ४७६६ ॥ यत् शटित-पतितं यत्र च व्यापारः कोऽपि न क्रियते तद् वास्तु अन्यातमुच्यते । अव्याकृतं नाम यद दायादैरविभक्तम् । अपरपरिगृहीतं नाम यद् 'अन्यपक्षण' अन्यदीयवंशेन नाधिष्ठित-नान्यैः परिगृहीतम् , खाम्येव तस्य शय्यातर इति भावः ॥ ४७६६ ॥ इदमेव भावयति 10 अवरो सु चिय सामी, जेण विदिण्णं तु तप्पढमताए। अमरपरिग्गहियं पुण, देउलिया रुक्खमादी वा ॥ ४७६५॥ . 'अपरो नाम' येन तत्प्रथमतया साधूनां तद् दत्तं स एव तस्य खामी नान्यः कश्चिद्, न परोऽपर इति समासाश्रयणात् । अमरपरिगृहीतं पुनर्देवकुलिका वा वृक्षादिकं वा वानमन्तराधिष्ठितं मन्तव्यम् ॥ ४७६७ ॥ अथाव्याकृतादिषु दृष्टान्तानुपदर्शयति अन्वावडे कुटुंबी, काणिऽव्वोगडे य रायगिहे। अपरपरे सो चेव उ, अमरे.रुक्खे पिसायघरे ।। ४७६८॥ अव्याहते गृहे कुटुम्बी दृष्टान्तः । अव्याकृते तु राजगृहे नगरे “काणिट्ट" ति पाषाणमय्यः पक्केष्टका वा बलिका महत्यश्च काणिका उच्यन्ते, तन्मयगृहकारापको वणिग् दृष्टान्तः । अपरपरिगृहीतेऽपि स एव दृष्टान्तः । अमरपरिगृहीते वृक्षः पिशाचगृहं वा 20 निदर्शनं भवतीति नियुक्तिगाथासमासार्थः ॥ ४७६८॥ अथैनामेव विवरीषुः कुटुम्बिदृष्टान्तमाह निम्मवणं पासाए, संखडि जक्ख सुमिणे य कंटीय । अण्णं वा वावारं, ण कुणति अव्वावडं तेणं ॥ ४७६९ ।। एगेणं कुटुंबिएणं सुंदरं घरं कारियं । समते तम्मि संखडिं काउं 'कल्ले पविसामि' ति 25 चिंतेइ । नवरं वाणमंतरेणं रति भण्णति-जइ पविसिहिसि तो ते कुलं उच्छाएमि । तेण कंटियाहिं फैलहिऊण मुकं, वावारं च से न करेइ । अन्नया साहहिं आगएहिं सो कुडुम्बी अणुण्णविओ । तेण भण्णइ-देवयाए परिग्गहियं ततो भे अवाओ भविस्सइ । साहूहिं भणितो-अणुजाणसु तुमं, लैंभिस्सामो वयं देवयाए । तओ तेण अणुण्णाए तेहिं काउस्सग्गेण जक्खो आकंपिओ भणइ-उवरिल्लभूमियं मोत्तुं वीसत्था अच्छह । ते ट्ठिया । तेसु 30 गतेसु जे अन्ने साहुणो इंति ते तत्थेव ठायंति, स चेव उग्गहस्स पुवाणुन्नवणा ॥ १°गृहे 'काणेष्टकाः' पक्केष्टकाः तन्मयगृहकाराप' भा० ॥ २ "पलिहणिऊणं" इति चूर्गों विशेषचूर्णौ च ॥ ३ भलिस्सामो भा० चूर्णौ च ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy