________________
१२८२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २७ __ अथ गाथाक्षरार्थः -कुटुम्बिना प्रासादस्य निर्मापणं कृतम् । ततः सङ्खडिः कर्त्तमारब्धा । यक्षेण च खप्ने निवेदितं-यदि प्रासादं प्रवेक्ष्यसि ततः सकुटुम्बं भवन्तं व्यपरोपयिष्यामीति । तेन कण्टिकाभिः परिक्षिप्तं तद् गृहम्, अन्यमपि च व्यापारं तत्र न करोति, तेनाव्यापृतमुच्यते ॥ ४७६९ ॥ अव्याकृते दृष्टान्तमाह
इड्डित्तणे आसि घरं महल्लं, कालेण तं खीणधणं च जायं ।
ते उम्मरीयस्स भया कुडीए, दाउंठिया पासि घरं जईणं ॥ ४७७० ॥ एगेणं इड्डिमंतेणं वाणिएणं रायगिहे नयरे सजालमालाचोप्पालं पक्किट्टगाहिं गिहं कारियं । सो य तम्मि निम्मविए पंचत्तीहूओ । पुत्ता से फेल्ला जाया, क्षीणविभवा इत्यर्थः । तत्थ य
उंबरीओ करो घिप्पइ । ते तं दाउं अचयंता एगपासे कुडियं काउं ठिया । तं च तेहिं 10 संजयाण दिन्नं ॥
अथाक्षरगमनिका-'ऋद्धिमत्त्वे' महर्द्धिकतायां कस्यापि वणिजो गृहं 'महल्लं' महाजनाकुलमासीत् । कालेन तत् क्षीणधनं चशब्दादल्पमानुषं च सञ्जातम् । ते च तदीयाः पुत्राः 'उम्बरीयस्य' 'प्रत्युदुम्बरं रूपको दातव्यः' इत्येवंलक्षणस्य करस्य भयादेकस्मिन् पार्श्वे कुटी
कृत्वा मौलं च गृहं यतीनां दत्त्वा कुटीरके स्वयं स्थिताः, एतदव्याकृतमुच्यते ॥ ४७७० ॥ 18 अथ पूर्वानुज्ञापनापदं व्याख्याति
पुवट्टियऽणुण्ण वियं, ठायंतऽण्णे वि तत्थ ते य गता ।
एवं सुण्णमसुण्णे, सो च्चेव य उग्गहो होइ ॥ ४७७१ ॥ अव्यापृतेऽव्याकृते वा पूर्व साधवोऽनुज्ञाप्य स्थिताः, तेषां मासकल्पे वर्षावासे वा पूर्णे शून्यीभूते 'तत्र' प्रतिश्रयेऽपूर्णे वा कल्पेऽशून्य एवोपाश्रयेऽन्ये साधवस्तिष्ठन्ति, 'ते च' पूर्वसा20 धवः कल्पं समाप्यान्यत्र गताः; एवं शून्ये अशून्ये वा तत्र तिष्ठतां तेषां स एवावग्रहो भवति, न पुनर्भूयोऽनुज्ञापयन्ति ॥ ४७७१ ॥ अपरपरिगृहीतं व्याचष्टे
अपरपरिग्गहितं पुण, अपरे अपरे जैती जइ उवेंति ।
अव्वोकडं पि तं चिय, दोन्नि वि अत्था अपरसद्दे ॥ ४७७२ ॥ पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि-अपरपरिगृहीतं नाम येन साधूनां तद् दत्तं 28 स एव स्वामी नान्य इति तावदपरपरिगृहीतस्यैकोऽर्थः प्रागुक्तः; यद्वा यदि अपरेऽपरे यत
यस्तत्रोपयन्ति तदपरपरिगृहीतम् । अव्याकृतमपि तदेव मन्तव्यम् , सर्वेषामपि साधूनां साधारणमिति कृत्वा । तदेवं द्वावप्यर्थावपरशदे भवतः, एकः-न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम् , द्वितीयः-अपरैः साधुभिः परिगृहीतमपरपरिगृहीतमिति ॥ ४७७२ ॥
अमरपरिगृहीतं तु वृक्षो वृक्षस्याधस्ताद्वा गृह मन्तव्यम् , तत्र गृहे यदि पूर्व साधवोऽनुज्ञाप्य 30 स्थितास्तदा शेषाणां स एवावग्रहो भवति । अथ वृक्षविषयं विधिमाह
१ "चोप्पोलं" चूर्णी ॥ २ जती समुवयंति भा० । एतदनुसारेणैव भा. टीका, दृश्यतां टिप्पणी ३ ॥ ३ यत्रापरेऽपरे यतयः समुपयन्ति भा० ॥ ४ तु पिशाच गृहं वृक्षादिकं वा भवति, तत्र पिशाचगृहे यदि भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org