Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१२६८
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २५
एकत्र ग्रामे गच्छः स्थितः, तेषां च ग्लान उत्पन्नः, तत्प्रतिचरणे साधवो व्यापृताः सन्तः सर्वेऽपि भिक्षामटितुं न प्रभवन्ति, ततश्चासंस्तरणं सञ्जातम् । एवं ग्लाने पूर्वोत्पन्ने संस्तरतां शैक्ष उपस्थितः, ते च ग्लानकार्यव्यापृततया शैक्षं वर्त्तापयितुं न पारयन्ति, अतो भगवद्भिः प्रतिषिद्धम् — न तैः शैक्षो दीक्षणीयः, यदि दीक्षयन्ति ततश्चतुर्गुरुकाः । अथ लोभदोषेणा5मीषां षण्णां प्रकाराणामन्यतरेण प्रेषयन्ति – “ वयमाण" इत्यादि, तं शैक्षं मुण्डयित्वा 'ज त्वमेकाक्येवामुकाचार्थसन्निधौ' इति वदन्तो विसर्जयन्ति यद्वा तस्यैकं कमपि सहायं सङ्घाटकं वा समर्पयन्ति, एते त्रयः प्रकारा मुण्डितस्य भवन्ति; अमुण्डितस्याप्येत एव त्रयः; एते षडपि तं शैक्षं न लभन्ते, षड्भिः प्रकारैः प्रेषयन्त इत्यर्थः । येषां समीपे प्रेषयन्ति तेषामेवासौ शिष्यः ॥ ४७१० ॥ अथात्मसमीपे स्थापयन्ति तत इमे दोषा::-D
10
आयरिय - गिलाणे गुरुगा, सेहस्सा अकरणम्मि चउलहुगा । परितावणणिफण्णं, दुहतो भंगे य मूलं तु ॥ ४७११ ॥
शैक्षं प्रव्राज्य तद्वैयावृत्यव्याकुलाः सन्तो यद्याचार्याणां ग्लानस्य वा वैयावृत्यं न कुर्वन्ति चतुर्गुरुकाः । अथ शैक्षस्य न कुर्वन्ति चतुर्लघुकाः । अथ ग्लानादीनामनागाढमागाढं वा परितापना भवति ततस्तन्निष्पन्नम् । “दुहतो भंगे य” त्ति शैक्षस्य यदुन्निष्क्रमणं ग्लानस्य यद् 15 मरणम् एष द्विधा भङ्ग उच्यते तत्र मूलं भवति ॥ ४७११ ॥ अथ द्वितीयपदमाह– संथरमाणे पच्छा, जायं गहिते व पच्छ गेलन्नं । अपाइए पव्वइए, संघाडेगे व वयमाणे ॥ ४७१२ ॥
इह गच्छे ग्लानो विद्यते परं नागाढं ग्लानत्वम्, ततः संस्तरति तैः शैक्षमपि वर्त्तापयितुमाचार्याणामपि कर्तुमेवं प्रव्राजितः शैक्षः, पश्चाच्च ग्लानत्वमागाढं समजनि, तत्रोद्वर्तन-परिव20 र्त्तनादिव्यापृता एके तावद् भिक्षां न हिण्डन्ते, येsपि हिण्डन्ते तेऽपि न शक्नुवन्ति सर्वेषाम पर्याप्तमानेतुम्, एवमसंस्तरणं जातम् ; यद्वा मूलत एव ग्लानत्वं पूर्वं नासीत् किन्तु पश्चाच्छैक्षे 'गृहीते' पत्राजिते सति' ग्लानत्वमुत्पन्नं ततोऽसौ षङ्गिः प्रकारैः प्रेषणीयः । तद्यथा - 'अप्रत्र - जितः ' मुण्डितः, 'प्रत्रजितः ' मुण्डितः । एष द्विविधोऽपि त्रिधा - सङ्घाटकेन एकसाधुना "वयमाणे” त्ति एकाकी व्रजेति ब्रुवाणैः, एकाकित्वेनेत्यर्थः ॥ ४७१२ ॥ 25 अथ "संथरमाणे पच्छा जायं" ति पदं विशेषतो व्याचष्टे
नागाढं पउणिस्सर, अचिरेणं तं च जायमागाढं ।
सेहं वट्टावे, ण तरंति गिलाण किच्चं च ।। ४७१३ ॥
पूर्वमनागाढं ग्लानत्वं भवेत्, ततः शैक्षे उपस्थिते चिन्तितम् — अचिरेणैवायं ग्लानः प्रगुणीभविष्यति; ततः शैक्षे प्रत्राजिते तद् ग्लानत्वमागाढं जातम्, ततस्ते शैक्षं वर्त्तापयितुं 30 ग्लानकृत्यं च कर्त्तुं समकमेव "न तरंति" न शक्नुवन्ति, अतोऽन्येषां समीपे प्रेषयन्तः शुद्धाः ॥ ४७१३ ॥
अपडिच्छणेतरेसिं, जं सेहवियावडा उ पावंति ।
१ एतदन्तर्गतमवतरणं भा० नास्ति ॥ २ अत्र द्वि° भा० कां० ॥ ३ °ति तदुत्प' भा० ॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444