Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाष्यगाथाः ४७०२-१०] तृतीय उद्देशः ।
१२६७ अथान्तराऽन्तरा तस्य भावः प्रव्रज्यां प्रति परिणमते निवर्चते वा ततः क्षेत्रे परिणतः क्षेत्रिकस्याभवति बहिस्तु परिणतः 'तस्य' धर्मकथिन आभवतीति ॥ ४७०५ ॥ गतम् 'अति. क्रामन्'द्वारम् । अथ "द्विविधा मार्गणा शिष्ये एकविधा च प्रतीच्छके" (गा० ४६६१) इति यदुक्तं तत्र प्रतीच्छकविषयां तावदेकविधां केवलसज्ञातकविषयां मार्गणामाह
माया पिया व भाया, भगिणी पुत्तो तहेव धूता य ।।
छप्पे नालबद्धा, सेसे पंभवंति आयरिया ॥ ४७०६ ।। माता पिता भ्राता भगिनी पुत्रस्तथैव दुहिता च, षडप्येतेऽनन्तरवल्लीमधिकृत्य नालबद्धा मन्तव्याः । एते चाभिधारयन्तः प्रतीच्छकस्याभवन्ति । उपलक्षणमिदम् , तेन परम्परावल्लीबद्धा अपि वक्ष्यमाणाः षोडश जना अभिधारयन्तस्तस्यैवाभवन्ति । शेषास्तु-ये नालबद्धा न भवन्ति तेषु आचार्याः प्रभवन्ति, न प्रतीच्छकः ॥ ४७०६ ॥
10 इदमेव व्यक्तीकुर्वन् परम्परावल्ली प्रतिपादयति
माउम्माया य पिया, भाया भगिणी य एव पिउणो वि । भातादिपुत्त-धूता, सोलसगं छ च बावीसं ॥ ४७०७ ।। बावीस लभति एए, पडिच्छओ जति य तमभिधारती ।
अभिधारमणमिधारे, णायमणातेतरे ण लमे ॥ ४७०८॥ 16 मातुः सम्बन्धिनो माता पिता भ्राता भगिनी चेति चत्वारो जनाः ४, पितुः सम्बन्धिनोऽप्येवमेव चत्वारो जनाः ८, "भायाइपुत्त-धूय" ति भ्रातुः सम्बन्धी पुत्रो दुहिता चेति जनद्वयम् १०, आदिशब्दाद् भगिन्या अप्यपत्यं भागिनेयो भागिनेयी चेति द्वयम् १२, पुत्रस्यापत्यं पौत्रः पौत्री चेति द्वयम् १४, दुहितुरपत्यं दौहित्रो दौहित्री चेति द्वयम् १६, सर्वसङ्ख्यया षोडशकं भवति । षट् चाऽनन्तरवल्लीजना अत्र प्रक्षिप्यन्ते, ततो द्वाविंशतिर्भवति ॥ ४७०७ ।। 20
द्वाविंशतिमप्येतान् जनान् प्रतीच्छको लभते यदि च 'तं' प्रतीच्छकम् 'अभिधारयन्ति' मनसि कुर्वन्ति, अनभिधारयन्तस्तु तेऽप्याचार्यस्यैवाभाव्या इति भावः । इतरे-उक्तव्यतिरिक्तास्तानभिधारयतो वा अनभिधारयतो वा ज्ञातकान् वाऽज्ञातकान् वा प्रतीच्छको न लभते॥४७०८॥ अथ शिष्यविषयां द्विविधां मार्गणामाहनायगमणायगा पुण, सीसे अभिधारमणभिधारे य ।
25 दोक्खर-खरदिटुंता, सव्वे वि भवंति आयरिए ॥ ४७०९॥ द्विविधा मार्गणा नाम-ये शिष्यस्य 'ज्ञातकाः' खजना ये च 'अज्ञातकाः' अखजनास्ते तमभिधारयन्तो वाऽनभिधारयन्तो वा सर्वेऽप्याचार्यस्याभवन्ति न शिष्यस्य । कुतः ? इत्याह'यक्षर-खरदृष्टान्तात्' "दासेण मे खरो कीओ, दासो वि मे खरो वि मे।" इति निदर्शनात् ॥ ४७०९ ॥ अथ "पडिसेहिय वचंते कहं कप्पो विहिज्जइ" (गा० ४६६२) इति द्वारं 30 निरूपयन्नाह
पुव्वुप्पन्नगिलाणे, असंथरंते य चउगुरू छण्हं । वयमाण एगें संघाडए य छप्पेते ण उभंति ॥ १७१० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444