Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 401
________________ १२६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २५ परक्षेत्रे मासकल्पेन वर्षावासेन वा वसन् 'अतिक्रामन् वा' परक्षेत्रमग्रतो गन्तुमनास्तत्रावस्थितः ‘असंज्ञिनम्' अप्रतिपन्नसम्यक्त्वं स्वयमुपशमितमपि न लभते । अथ कञ्चिन्मिथ्यादृष्टिं सम्यक्त्वम् आदिशब्दादणुव्रतानि वा ग्राहयित्वा क्षेत्रान्तरं गतः भूयोऽप्यन्यदा तदेव क्षेत्रमायातः, स च प्रागुपशामित इदानीं पूर्वसंज्ञी लभ्यते, ततस्तं पूर्वसंज्ञिनं सम्यक्त्वादिग्राहितं 'सः' 5 उपशमकश्छन्देन लभते । किमुक्तं भवति?-उपशमिकं क्षेत्रिकं वा यमसावभिरोचयति तस्याभवति । एवं त्रयाणां वर्षाणामारतो मन्तव्यः, त्रिषु वर्षेषु पूर्णेषु स पूर्वसंज्ञी क्षेत्रिकस्यैवाभाव्यः, नोपशामयतः । आह च चूर्णिकृत्-"तिसु वरिसेसु पुण्णेसु खेत्तियस्सेवामवति, न उवसार्मितस्स" त्ति ॥ ४७०१॥ गतमेकग्रामद्वारम् । अथ 'अतिक्रामन्'द्वारमाह ___ मग्गंतों अन्नखित्ते, अभिधारंतो उ भावतो तस्स । खित्तम्मि खित्तियस्सा, बाहिं वा परिणतो तस्स ॥४७०२॥ शैक्षः कञ्चिदाचार्य मार्गयन् व्रजति, तस्य च 'अन्यक्षेत्रे' परकीयक्षेत्राभ्यन्तरे पथि गच्छतः कश्चिद् धर्मकथी मिलितः, स यद्याकर्षणहेतोस्तस्य धर्म कथयति तदा यमाचार्यमभिधारयन् व्रजति तस्याभवति, न कथयतः । अथ 'भावतः' खभावादेव कथयति ततस्तस्य धर्मकथि कस्याभवति । तुशब्दो विशेषणे, स चैतद् विशिनष्टि–यदि क्षेत्राभ्यन्तरे स्वभावतः कथयति 16 ततः क्षेत्रिकस्याभाव्यः, अथ क्षेत्राद बहिस्ततो धर्मकथिनः । अथान्तराऽन्तरा तस्य भावः परिणमते निवर्तते च ततः क्षेत्रे 'परिणतः' प्रव्रज्याभिमुखीभूतः क्षेत्रिकस्याभवति, बहिस्तु परिणतः 'तस्य' कथयत आभाव्य इति ॥ ४७०२ ॥ इदमेव व्याचष्टे अभिधारिंतो वच्चति, पुच्छित्ता साह वच्चतो तस्स । परिसागतो व कहई, कढणहेउं न तं लभति ॥ ४७०३ ॥ 20 कश्चिदाचार्यमभिधारयन् शैक्षो व्रजति, तस्य कोऽपि साधुः पथि गच्छन् मिलितः, तेन च पृष्टः--अमुक आचार्यः कुत्राऽऽस्ते ?; साधुराह-किं तेन भवतः प्रयोजनम् ?; स प्राह-तस्यान्तिके प्रव्रजितुकामोऽहम् ; एवं पृष्ट्वा तस्य व्रजत एवाकर्षणहेतोः “साह" ति धर्म कथयति । यद्वा ग्रामे कापि पर्षदन्तर्गतस्य धर्म कथयत उपस्थितस्ततो वन्दित्वा तथैव खाभिप्राये कथिते स आकर्षणहेतोर्विशेषतो धर्म कथयति, कथिते च यद्यसौ प्रबजितुमभिलपति ततो 25 न तं शैक्षं लभते, अभिधारिताचार्यस्यैव स आभवति ॥ ४७०३ ॥ उज्जु कहए परिणतं, अंतो खित्तस्स खित्तिओ लभइ । खिचबहिं तु परिणयं, लभतुजु कही ण खलु मादी ॥ ४७०४ ॥ अथासौ 'कथकः' धर्मकथी ऋजुकः सद्भावतः कथयति नाकर्षणहेतोः, स च प्रव्रज्यायां परिणतः ततः क्षेत्रान्तः परिणतं क्षेत्रिको लभते, क्षेत्रबहिः परिणतं तु ऋजुको धर्मकथी लभते 30 न खलु 'मायी' मायावान् ॥ ४७०४ ॥ परिणमइ अंतरा अंतरा य भावो णियत्तति ततो से । खित्तम्मि खेत्तियस्सा, बाहिं तु परिणतो तस्स ॥ ४७०५॥ १ कहयति, क° ताभा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444