Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 400
________________ भाष्यगाथाः ४६९३-४५००१ तृतीय उद्देशः । १२६५ भवन्ति । तथाहि-निर्दिष्टः संज्ञी अभ्युपगतः १ निर्दिष्टः संज्ञी अनभ्युपगतः २ निर्दिष्टोऽसंज्ञी अभ्युपगतः ३ निर्दिष्टोऽसंज्ञी अनभ्युपगतः ४, अनिर्दिष्टपदेनाप्येवमेव चत्वारो भना लभ्यन्ते, एते अष्टौ भङ्गा लिङ्गिन उक्ताः । अशिखाके सशिखाकेऽपि चैवमेव प्रत्येकमष्टौ भङ्गा भवन्ति । सर्वेऽप्येते मीलिताश्चतुर्विशतिरुपजायन्ते ॥ ४६९७॥ एतेषु विधिमाहपढम-बिति-ततिय-पंचम-सत्तम-नव-तेरसेसु भंगेसु । । विप्परिणतो वि तस्सेव होइ सेसेसु सच्छंदो ॥ ४६९८॥ प्रथम-द्वितीय-तृतीय-पञ्चम-सप्तम-नवम-त्रयोदशेषु भङ्गेषु विपरिणतोऽपि यं निर्दिश्यागतो यं वा अभ्युपगतस्तस्यैवाभवति । 'शेषेषु' चतुर्थ-षष्ठा-ऽष्टम-दशमैकादश-द्वादश-चतुर्दशादिषु चतुर्विशान्तेषु सप्तदशसु भङ्गेपु 'स्वच्छन्दः' खेच्छा, यः प्रतिभाति तस्यैवाभवतीत्यर्थः ॥ ४६९८ ॥ इदमेव व्यक्तीकुर्वन्नाह 10 सव्वो लिंगी असिहो, य सावतो जस्स अन्भुवगतो सो। णिहिट्ठसण्णिलिंगी, तस्सेवाणभुवगतो वि ॥ ४६९९ ॥ सो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिकेऽभ्युपगतः स एव तं लभते । किमुक्तं . भवति?-यो लिङ्गसहितोऽभ्युपगतः स निर्दिष्टोऽनिर्दिष्टो वा संज्ञी असंज्ञी वा भवतु, यश्चाशिखाकः श्रावकोऽभ्युपगतः सोऽपि निर्दिष्टोऽनिर्दिष्टो वा भवतु, एष सर्वोऽपि यमेवाभ्यु-16 पगतो विपरिणतोऽपि तस्यैवाभवति । एतेन प्रथम-तृतीय-पञ्चम-सप्तम नवम-त्रयोदशभङ्गाः सूचिताः । तथा यो लिङ्गी निर्दिष्टः संज्ञी च स यद्यप्यनभ्युपगतस्तथापि यमेव निर्दिश्यागतः तस्यैवाभवति, न पुनर्विपरिणतोऽप्यन्यस्य, अनेन द्वितीयो भङ्गो गृहीतः । शेषेषु तु सप्तदशखपि भङ्गेषु यत्राभ्युपगतस्तत्राविपरिणतस्तस्यैव, विपरिणतस्तु खेच्छया; यत्र तु नाभ्युपगतस्तत्र विपरिणतोऽविपरिणतो वा यथाखच्छन्दमाभाव्य इति ॥ ४६९९ ॥ 20 गतं "कथं कल्पोऽभिधारणे" इति द्वारम् । अथैकग्रामे इति द्वारमाह अस्सन्नी उवसमितो, अप्पणों इच्छाइ अण्णहिं तस्स । दणं च परिणए, उवसामितें जस्स वा खित्तं ॥ ४७००॥ केनचिद् धर्मकथिना कश्चिद् 'असंज्ञी' मिथ्यादृष्टिः 'उपशमितः' प्रव्रज्याभिमुखीकृतः स यावद् नाद्यापि सम्यक्तवं प्रतिपद्यते तावत् प्रव्रजन् क्षेत्रिकस्याभवति । अथ सम्यक्त्वं प्रतिपन्नः 25 तच्च क्षेत्रमन्यस्याचार्यस्य सत्कं ततोऽसावात्मन इच्छया आभवति; यदि क्षेत्रिकस्योपतिष्ठते ततस्तस्यैव, अथोपशमयत उपस्थितस्तत उपशामयत एव, एतौ द्वौ मुक्त्वाऽन्यस्य नाभवति । "अन्नहिं" ति अथ 'अन्यत्र' क्षेत्रा बहिरुपशमितस्तदा तस्योपशमकस्याभवति । अथ धर्मकथिनाऽपि नोपशामितः परमन्यं कमप्याचार्यादिकं दृष्ट्वा खयमेव प्रव्रज्यायां परिणतस्ततोऽसौ क्षेत्राद् बहिरुपशान्तः उपशमिन आभवति, मूर्चिदर्शनद्वारेणोपशमनकारिण इत्यर्थः । अथ क्षेत्रान्तरुप-30 शान्तस्ततो यस्य सत्कं क्षेत्रं तस्याभाव्यः ॥ ४७०० ॥ अमुमेवार्थ सविशेषमाह परखित्ते वसमाणो, अइकमंतो व ण लभति असणि । छंदेण पुव्वसण्णि, गाहितसम्माति सो लभति ॥ ४७०१॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444