________________
भाष्यगाथाः ४६९३-४५००१ तृतीय उद्देशः ।
१२६५ भवन्ति । तथाहि-निर्दिष्टः संज्ञी अभ्युपगतः १ निर्दिष्टः संज्ञी अनभ्युपगतः २ निर्दिष्टोऽसंज्ञी अभ्युपगतः ३ निर्दिष्टोऽसंज्ञी अनभ्युपगतः ४, अनिर्दिष्टपदेनाप्येवमेव चत्वारो भना लभ्यन्ते, एते अष्टौ भङ्गा लिङ्गिन उक्ताः । अशिखाके सशिखाकेऽपि चैवमेव प्रत्येकमष्टौ भङ्गा भवन्ति । सर्वेऽप्येते मीलिताश्चतुर्विशतिरुपजायन्ते ॥ ४६९७॥ एतेषु विधिमाहपढम-बिति-ततिय-पंचम-सत्तम-नव-तेरसेसु भंगेसु ।
। विप्परिणतो वि तस्सेव होइ सेसेसु सच्छंदो ॥ ४६९८॥ प्रथम-द्वितीय-तृतीय-पञ्चम-सप्तम-नवम-त्रयोदशेषु भङ्गेषु विपरिणतोऽपि यं निर्दिश्यागतो यं वा अभ्युपगतस्तस्यैवाभवति । 'शेषेषु' चतुर्थ-षष्ठा-ऽष्टम-दशमैकादश-द्वादश-चतुर्दशादिषु चतुर्विशान्तेषु सप्तदशसु भङ्गेपु 'स्वच्छन्दः' खेच्छा, यः प्रतिभाति तस्यैवाभवतीत्यर्थः ॥ ४६९८ ॥ इदमेव व्यक्तीकुर्वन्नाह
10 सव्वो लिंगी असिहो, य सावतो जस्स अन्भुवगतो सो।
णिहिट्ठसण्णिलिंगी, तस्सेवाणभुवगतो वि ॥ ४६९९ ॥ सो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिकेऽभ्युपगतः स एव तं लभते । किमुक्तं . भवति?-यो लिङ्गसहितोऽभ्युपगतः स निर्दिष्टोऽनिर्दिष्टो वा संज्ञी असंज्ञी वा भवतु, यश्चाशिखाकः श्रावकोऽभ्युपगतः सोऽपि निर्दिष्टोऽनिर्दिष्टो वा भवतु, एष सर्वोऽपि यमेवाभ्यु-16 पगतो विपरिणतोऽपि तस्यैवाभवति । एतेन प्रथम-तृतीय-पञ्चम-सप्तम नवम-त्रयोदशभङ्गाः सूचिताः । तथा यो लिङ्गी निर्दिष्टः संज्ञी च स यद्यप्यनभ्युपगतस्तथापि यमेव निर्दिश्यागतः तस्यैवाभवति, न पुनर्विपरिणतोऽप्यन्यस्य, अनेन द्वितीयो भङ्गो गृहीतः । शेषेषु तु सप्तदशखपि भङ्गेषु यत्राभ्युपगतस्तत्राविपरिणतस्तस्यैव, विपरिणतस्तु खेच्छया; यत्र तु नाभ्युपगतस्तत्र विपरिणतोऽविपरिणतो वा यथाखच्छन्दमाभाव्य इति ॥ ४६९९ ॥
20 गतं "कथं कल्पोऽभिधारणे" इति द्वारम् । अथैकग्रामे इति द्वारमाह
अस्सन्नी उवसमितो, अप्पणों इच्छाइ अण्णहिं तस्स ।
दणं च परिणए, उवसामितें जस्स वा खित्तं ॥ ४७००॥ केनचिद् धर्मकथिना कश्चिद् 'असंज्ञी' मिथ्यादृष्टिः 'उपशमितः' प्रव्रज्याभिमुखीकृतः स यावद् नाद्यापि सम्यक्तवं प्रतिपद्यते तावत् प्रव्रजन् क्षेत्रिकस्याभवति । अथ सम्यक्त्वं प्रतिपन्नः 25 तच्च क्षेत्रमन्यस्याचार्यस्य सत्कं ततोऽसावात्मन इच्छया आभवति; यदि क्षेत्रिकस्योपतिष्ठते ततस्तस्यैव, अथोपशमयत उपस्थितस्तत उपशामयत एव, एतौ द्वौ मुक्त्वाऽन्यस्य नाभवति । "अन्नहिं" ति अथ 'अन्यत्र' क्षेत्रा बहिरुपशमितस्तदा तस्योपशमकस्याभवति । अथ धर्मकथिनाऽपि नोपशामितः परमन्यं कमप्याचार्यादिकं दृष्ट्वा खयमेव प्रव्रज्यायां परिणतस्ततोऽसौ क्षेत्राद् बहिरुपशान्तः उपशमिन आभवति, मूर्चिदर्शनद्वारेणोपशमनकारिण इत्यर्थः । अथ क्षेत्रान्तरुप-30 शान्तस्ततो यस्य सत्कं क्षेत्रं तस्याभाव्यः ॥ ४७०० ॥ अमुमेवार्थ सविशेषमाह
परखित्ते वसमाणो, अइकमंतो व ण लभति असणि । छंदेण पुव्वसण्णि, गाहितसम्माति सो लभति ॥ ४७०१॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org