________________
१२६६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २५
परक्षेत्रे मासकल्पेन वर्षावासेन वा वसन् 'अतिक्रामन् वा' परक्षेत्रमग्रतो गन्तुमनास्तत्रावस्थितः ‘असंज्ञिनम्' अप्रतिपन्नसम्यक्त्वं स्वयमुपशमितमपि न लभते । अथ कञ्चिन्मिथ्यादृष्टिं सम्यक्त्वम् आदिशब्दादणुव्रतानि वा ग्राहयित्वा क्षेत्रान्तरं गतः भूयोऽप्यन्यदा तदेव क्षेत्रमायातः, स च प्रागुपशामित इदानीं पूर्वसंज्ञी लभ्यते, ततस्तं पूर्वसंज्ञिनं सम्यक्त्वादिग्राहितं 'सः' 5 उपशमकश्छन्देन लभते । किमुक्तं भवति?-उपशमिकं क्षेत्रिकं वा यमसावभिरोचयति तस्याभवति । एवं त्रयाणां वर्षाणामारतो मन्तव्यः, त्रिषु वर्षेषु पूर्णेषु स पूर्वसंज्ञी क्षेत्रिकस्यैवाभाव्यः, नोपशामयतः । आह च चूर्णिकृत्-"तिसु वरिसेसु पुण्णेसु खेत्तियस्सेवामवति, न उवसार्मितस्स" त्ति ॥ ४७०१॥ गतमेकग्रामद्वारम् । अथ 'अतिक्रामन्'द्वारमाह
___ मग्गंतों अन्नखित्ते, अभिधारंतो उ भावतो तस्स ।
खित्तम्मि खित्तियस्सा, बाहिं वा परिणतो तस्स ॥४७०२॥ शैक्षः कञ्चिदाचार्य मार्गयन् व्रजति, तस्य च 'अन्यक्षेत्रे' परकीयक्षेत्राभ्यन्तरे पथि गच्छतः कश्चिद् धर्मकथी मिलितः, स यद्याकर्षणहेतोस्तस्य धर्म कथयति तदा यमाचार्यमभिधारयन् व्रजति तस्याभवति, न कथयतः । अथ 'भावतः' खभावादेव कथयति ततस्तस्य धर्मकथि
कस्याभवति । तुशब्दो विशेषणे, स चैतद् विशिनष्टि–यदि क्षेत्राभ्यन्तरे स्वभावतः कथयति 16 ततः क्षेत्रिकस्याभाव्यः, अथ क्षेत्राद बहिस्ततो धर्मकथिनः । अथान्तराऽन्तरा तस्य भावः परिणमते निवर्तते च ततः क्षेत्रे 'परिणतः' प्रव्रज्याभिमुखीभूतः क्षेत्रिकस्याभवति, बहिस्तु परिणतः 'तस्य' कथयत आभाव्य इति ॥ ४७०२ ॥ इदमेव व्याचष्टे
अभिधारिंतो वच्चति, पुच्छित्ता साह वच्चतो तस्स ।
परिसागतो व कहई, कढणहेउं न तं लभति ॥ ४७०३ ॥ 20 कश्चिदाचार्यमभिधारयन् शैक्षो व्रजति, तस्य कोऽपि साधुः पथि गच्छन् मिलितः, तेन च
पृष्टः--अमुक आचार्यः कुत्राऽऽस्ते ?; साधुराह-किं तेन भवतः प्रयोजनम् ?; स प्राह-तस्यान्तिके प्रव्रजितुकामोऽहम् ; एवं पृष्ट्वा तस्य व्रजत एवाकर्षणहेतोः “साह" ति धर्म कथयति । यद्वा ग्रामे कापि पर्षदन्तर्गतस्य धर्म कथयत उपस्थितस्ततो वन्दित्वा तथैव खाभिप्राये
कथिते स आकर्षणहेतोर्विशेषतो धर्म कथयति, कथिते च यद्यसौ प्रबजितुमभिलपति ततो 25 न तं शैक्षं लभते, अभिधारिताचार्यस्यैव स आभवति ॥ ४७०३ ॥
उज्जु कहए परिणतं, अंतो खित्तस्स खित्तिओ लभइ ।
खिचबहिं तु परिणयं, लभतुजु कही ण खलु मादी ॥ ४७०४ ॥ अथासौ 'कथकः' धर्मकथी ऋजुकः सद्भावतः कथयति नाकर्षणहेतोः, स च प्रव्रज्यायां परिणतः ततः क्षेत्रान्तः परिणतं क्षेत्रिको लभते, क्षेत्रबहिः परिणतं तु ऋजुको धर्मकथी लभते 30 न खलु 'मायी' मायावान् ॥ ४७०४ ॥
परिणमइ अंतरा अंतरा य भावो णियत्तति ततो से ।
खित्तम्मि खेत्तियस्सा, बाहिं तु परिणतो तस्स ॥ ४७०५॥ १ कहयति, क° ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org