SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ४७०२-१०] तृतीय उद्देशः । १२६७ अथान्तराऽन्तरा तस्य भावः प्रव्रज्यां प्रति परिणमते निवर्चते वा ततः क्षेत्रे परिणतः क्षेत्रिकस्याभवति बहिस्तु परिणतः 'तस्य' धर्मकथिन आभवतीति ॥ ४७०५ ॥ गतम् 'अति. क्रामन्'द्वारम् । अथ "द्विविधा मार्गणा शिष्ये एकविधा च प्रतीच्छके" (गा० ४६६१) इति यदुक्तं तत्र प्रतीच्छकविषयां तावदेकविधां केवलसज्ञातकविषयां मार्गणामाह माया पिया व भाया, भगिणी पुत्तो तहेव धूता य ।। छप्पे नालबद्धा, सेसे पंभवंति आयरिया ॥ ४७०६ ।। माता पिता भ्राता भगिनी पुत्रस्तथैव दुहिता च, षडप्येतेऽनन्तरवल्लीमधिकृत्य नालबद्धा मन्तव्याः । एते चाभिधारयन्तः प्रतीच्छकस्याभवन्ति । उपलक्षणमिदम् , तेन परम्परावल्लीबद्धा अपि वक्ष्यमाणाः षोडश जना अभिधारयन्तस्तस्यैवाभवन्ति । शेषास्तु-ये नालबद्धा न भवन्ति तेषु आचार्याः प्रभवन्ति, न प्रतीच्छकः ॥ ४७०६ ॥ 10 इदमेव व्यक्तीकुर्वन् परम्परावल्ली प्रतिपादयति माउम्माया य पिया, भाया भगिणी य एव पिउणो वि । भातादिपुत्त-धूता, सोलसगं छ च बावीसं ॥ ४७०७ ।। बावीस लभति एए, पडिच्छओ जति य तमभिधारती । अभिधारमणमिधारे, णायमणातेतरे ण लमे ॥ ४७०८॥ 16 मातुः सम्बन्धिनो माता पिता भ्राता भगिनी चेति चत्वारो जनाः ४, पितुः सम्बन्धिनोऽप्येवमेव चत्वारो जनाः ८, "भायाइपुत्त-धूय" ति भ्रातुः सम्बन्धी पुत्रो दुहिता चेति जनद्वयम् १०, आदिशब्दाद् भगिन्या अप्यपत्यं भागिनेयो भागिनेयी चेति द्वयम् १२, पुत्रस्यापत्यं पौत्रः पौत्री चेति द्वयम् १४, दुहितुरपत्यं दौहित्रो दौहित्री चेति द्वयम् १६, सर्वसङ्ख्यया षोडशकं भवति । षट् चाऽनन्तरवल्लीजना अत्र प्रक्षिप्यन्ते, ततो द्वाविंशतिर्भवति ॥ ४७०७ ।। 20 द्वाविंशतिमप्येतान् जनान् प्रतीच्छको लभते यदि च 'तं' प्रतीच्छकम् 'अभिधारयन्ति' मनसि कुर्वन्ति, अनभिधारयन्तस्तु तेऽप्याचार्यस्यैवाभाव्या इति भावः । इतरे-उक्तव्यतिरिक्तास्तानभिधारयतो वा अनभिधारयतो वा ज्ञातकान् वाऽज्ञातकान् वा प्रतीच्छको न लभते॥४७०८॥ अथ शिष्यविषयां द्विविधां मार्गणामाहनायगमणायगा पुण, सीसे अभिधारमणभिधारे य । 25 दोक्खर-खरदिटुंता, सव्वे वि भवंति आयरिए ॥ ४७०९॥ द्विविधा मार्गणा नाम-ये शिष्यस्य 'ज्ञातकाः' खजना ये च 'अज्ञातकाः' अखजनास्ते तमभिधारयन्तो वाऽनभिधारयन्तो वा सर्वेऽप्याचार्यस्याभवन्ति न शिष्यस्य । कुतः ? इत्याह'यक्षर-खरदृष्टान्तात्' "दासेण मे खरो कीओ, दासो वि मे खरो वि मे।" इति निदर्शनात् ॥ ४७०९ ॥ अथ "पडिसेहिय वचंते कहं कप्पो विहिज्जइ" (गा० ४६६२) इति द्वारं 30 निरूपयन्नाह पुव्वुप्पन्नगिलाणे, असंथरंते य चउगुरू छण्हं । वयमाण एगें संघाडए य छप्पेते ण उभंति ॥ १७१० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy