Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 398
________________ १२६३ भाष्यगाथाः ४६८४-९२] तृतीय उद्देशः । एवं वासावासे, उडुबद्धे पंथें जत्थ वा अति । ___ सव्वत्थ होति उग्गहों, केसिंचि पतीवदिटुंतो ॥ ४६८९ ॥ एवं वर्षावासे ऋतुबद्धे वा विधिर्मन्तव्यः । एतच्च सचित्तमङ्गीकृत्योक्तम् । अचिते तु वर्षावासे वा ऋतुबद्धे वा मासद्वयं दिवसपञ्चकं च पूर्वावग्रह इति, पथि वा व्रजतां यत्र काप्याचार्यस्तिष्ठति तत्र सर्वतः सक्रोशं योजनमवग्रहो भवति, तत्राप्येवमेव सचित्तादीनामाभाव्या-ऽनाभाव्यविधिरवसातव्यः । केषाश्चिदाचार्याणामयमभिप्रायः--मार्ग गच्छतां पृष्ठतो वा नास्त्यवग्रहः; अयं चानादेशः । कुतः ? इत्याह-प्रदीपदृष्टान्तोऽत्र भवति । यथा हि प्रदीपः सर्वतः प्रकाशयति नैकामपि दिशं प्रकाशशून्यां करोति, एवमवग्रहोऽपि सर्वतो भवति, न कुत्रचिन्न भवत्यपीति ॥ ४६८९ ॥ एवं तावत् क्षेत्रे सचित्तादिविषयो विधिरुक्तः। अथाक्षेत्रे तमेवातिदिशति 10 अक्खित्ते वसधीए, जाणग जाणाविए वि एमेव । उजुगमणुजगे या, सो चेव गमो हवइ तत्थ ॥ ४६९०॥ 'अक्षेत्रे' इन्द्रकीलादियुक्ते नगरादौ सक्रोशं योजनमवग्रहो न भवति, किन्तु तत्र यस्यां वसतौ यः पूर्व स्थितस्तस्यां सचित्तादिकं यदुपतिष्ठते तत् तस्य आभवति, न पश्चादागतानाम् । तत्रापि य एव क्षेत्रे गम उक्तः स एव सर्वोऽपि ज्ञायके ज्ञापिते च ऋजुकेऽनृजुके च 15 वक्तव्य इति ॥ ४६९०॥ अथ "कथं कल्पोऽभिधारणे" ( गा० ४६६०) इति निर्वचन्नाह अणिदिट्ठ सण्णऽसण्णी, गहिता-गहिए य ओह सच्छंदो। णिदिट्ट लिंगसहितो, सण्णी तस्सेव णऽण्णस्स ॥ ४६९१ ॥ 'अभिधारणं' प्रव्रज्यार्थमाचार्यादेर्मनसा सङ्कल्पनम् , तच्च द्विधा-अनिर्दिष्टं निर्दिष्टं च । 20 अनिर्दिष्टं नाम-अभिधारयन् कमप्याचार्य विशेषतो न निर्दिशति । स चाभिधारको द्विधा--- संज्ञी असंज्ञी च । पुनरेकैको द्विधा-गृहीतलिङ्गोऽगृहीतलिङ्गश्च । एष सर्वोऽप्योघतः-सामान्येनाचार्यविशेषमनिर्दिश्य वजन् स्वच्छन्द आभाव्यो भवति, यस्यान्तिके प्रव्रजति तस्यैवासौ शिष्य इत्यर्थः । निर्दिष्टं पुनः-अभिधारणं तदुच्यते यत्र 'अमुकस्याचार्यस्य समीपे प्रवजिष्यामि' इति निर्देशं करोति । एषोऽपि द्विधा-संज्ञी असंज्ञी च । भूय एकैको द्विधा-25 लिङ्गसहितो लिङ्गरहितश्च । तत्र लिङ्गसहितः संज्ञी यमाचार्यमभिधार्य गच्छति विपरिणतोऽपि तस्यैवासौ भवति, नान्यस्य ॥ ४६९१ ॥ निद्दिढे अस्सण्णी, गहिया-ऽगहिए य अगहिए सण्णी। तस्सेव अविपरिणते, विपरिणते जस्स से इच्छा ॥ ४६९२ ॥ योऽसंज्ञी स गृहीतलिङ्गो अगृहीतलिङ्गो वा भवतु, यस्तु 'संज्ञी' श्रावकः सोऽगृहीत-30 लिङ्गः एते त्रयोऽप्यविपरिणते भावे यं निर्दिष्टमाचार्यमभिधार्य गच्छन्ति तस्यैवाभवन्ति । अथ तं प्रति भावो विपरिणतस्ततो यस्य सकाशे तेषां प्रबजितुमिच्छा तस्यैव ते शिष्याः ॥ ४६९२ ॥ अथ किं कारणं लिङ्गसहितो बजति ? इत्याद .... Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444