Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 397
________________ १२६२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ अव्याहतः पुनरागतप्रव्रजितो यावज्जीवपराजितश्चेति त्रयः शैक्षाः । एतान् तदिने द्वितीयदिने वाऽप्रेषयतः प्रकारषट्कम् । एतच्च खग्रामे 'इतरसिंश्च' परनामे भवतीति कृत्वा द्वाभ्यां गुणितं द्वादशधा भवति ॥ ४६८३ ॥ अथ ऋजु-अनृजुलक्षणमाह जाणंतमजाणते, णेइ व पेसेइ वा अमाइल्लो । सो चेव उजुओ खलु, अणुअतो जो ण अप्पेति ॥ ४६८४ ॥ जानतो अजानतो वा शैक्षान् योऽमायावी स क्षेत्रिकाणां समीपे खयं नयति वा परहस्तेन वा प्रेषयति स एव ऋजुक उच्यते । अनृजुस्तु सोऽभिधीयते यो नार्पयति न वा प्रेषयति ॥ ४६८४ ॥ अथैते वास्तव्या वाताहृता जानन्तोऽजानन्तो वाऽनृजुभिः प्रवाजिताः कथं पश्चात् परिज्ञायन्ते ? उच्यते-स्नाना-ऽनुयानादिषु यत्र मिलितास्तत्र क्षेत्रिकैः कश्चिदनृजुप्र. 10 व्रजितो वाताहृतः पृष्टः-कथं भवान् प्रव्रजितः ?, स भणति तुभ चिय णीसाए, मि आगतो दिक्खितो बला णेहिं । अम्हे किमपव्वइया, पुट्ठा व ण ते परिकहेंसु ॥४६८५ ॥ युष्माकमेव निश्रया अहमागतः अमीभिश्च बलाद् दीक्षितः, मया भृशममी पृष्टास्तत एभिराख्यातम्-वयं किं प्रव्रजिता न भवामो यदेवं तान् मार्गयसि ?; यद्वा न ते पृष्टाः सन्तः 16 किमप्याख्यातवन्तः ॥ ४६८५ ॥ एवं रूप-शब्द-यशःकीर्तिज्ञो वक्ति । यस्तु कीर्तिमपि न जानाति स ब्रूयात् वायाहडो तु पुट्ठो, भणाइ अमुगदिण अमुगकालम्मि । एतेहिं दिक्खितोऽहं, तुम्हे वि सुणामि तत्थाऽऽसी ॥ ४६८६ ।। तुशब्दस्य विशेषणार्थतया यो वाताहृतो यशःकीर्तेरप्यज्ञायकः स पृष्टो भणति-'अमु90 कदिने' प्रतिपदादौ अमुष्मिन् काले-मार्गशीर्षादौ मासे दीक्षितोऽहमेतैः, दीक्षानन्तरं च शृणोमि, यथा-यूयमपि तत्रासीरन्निति ॥ ४६८६ ॥ एमेव य जसकित्ति, जाणतो जो य तं ण जाणाति । तस्स वि तहेव पुच्छा, पावयणी वा जदा जातो ॥ ४६८७॥ ___ एवमेव वास्तव्योऽपि यो यशःकीर्ति जानाति यश्च तां न जानाति तस्यापि तथैव स्नानादौ 26 यदा पृच्छा कृता भवति तदा ज्ञायते । यदा वाऽसौ 'प्रावचनिकः' बहुश्रुतो जातः तदा खयमेव जानाति-नाहममीषामाभाव्यः ॥ ४६८७॥ एवं तावत् सचित्तविषयो विधिरुक्तः । अथाचित्तादिविषयं तमेवातिदिशन्नाह एमेव य अचित्ते, दुविहे उवधिम्मि मीसते चेय । पुच्छा अपुव्वमुवहिं, दट्टण अणुजुभूयाणं ॥ ४६८८ ॥ so एवमेवाचित्ते 'द्विविधे' ओघोपग्रहोपधिभेदाद द्विप्रकारे उपधौ ‘मिश्रके च' सोपधिकशैक्षे विधिमन्तव्यः । कथं पुनरसावाभाव्योऽनाभाव्यो वा ज्ञायते ? इत्याह- 'अपूर्व' सारतरमुपधिं दृष्ट्वा अनृजुभूतानां तेषामन्तिके पृच्छा भवति, क्षेत्रिकैरयं कदा कुत्र वा गृहीतः ?' इत्येवं ते प्रष्टव्या इति भावः ॥ ४३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444