Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 395
________________ १२६० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ यतो मृत्युः 'अकरुणहृदयः' स्वभावादेः कठोराशयः तथा कथमप्यापनति यथा आपतन्नपि न दृश्यते । उक्तं च श्वःकार्यमद्य कुर्वीत, पूर्वाह्ने चापरालिकम् । को हि तद् वेत्ति कस्याद्य, मृत्युसेनाऽऽपतिष्यति ॥ ॥४६७४ ॥ 6 तथा तूरह धम्म काउं, मा हु पमायं खणं पि कुव्वित्था । बहुविग्घो हु मुहुत्तो, मा अवरण्हं पडिच्छाहि ॥ ४६७५ ॥ भो भव्याः ! त्वरध्वं धर्म कर्तुम् , मा क्षणमपि प्रमादं कुरुध्वम् । कुतः ? इत्याह-बहवःशूल-विष-विसूचिका-शस्त्रघाता-ऽमिदाहादिभेदादनेके विघ्नाः-जीवितान्तराया यत्रासौ बहु10 विघ्नः, हुशब्दो यस्मादर्थे, अपिशब्दस्य चानुक्तस्यापि गम्यमानत्वाद् यस्माद् मुहूर्तोऽपि बहुविघ्नः, आस्तां प्रहर-दिवसादिः, अतो महाभाग ! मा प्रव्रज्याग्रहणेऽपरालमपि प्रतीक्षिष्ठाः । एवमनुशासनं कृत्वा चतुर्भिर्नवकैस्तथैव प्रेषणीयम् ॥ ४६७५ ।। ___ गतं "पुणो दाई" ति द्वारम् । अथ यावज्जीवपराजितद्वारमाह बहुसो उपट्टियस्सा, विग्घा उढिति जज्जिय जितो मि । अणुसासण पत्थवणं, णवगा य भवे समुंडियरे ॥ ४६७६ ॥ क्षेत्रिकाणां गमनवृत्तान्तं ज्ञात्वा कोऽपि शैक्षो ब्रूयात्-'बहुशः' अनेकशः प्रव्रज्याग्रहणायोपस्थितोऽहम् , परं वारंवारं विना नवनवा उत्तिष्ठन्ते, अतो "जज्जियं" यावज्जीवमहं विर्जितोऽस्मि, यदेवं ते साधवो विहृतवन्तः, अतः परं तेषु समागतेषु प्रव्रजिष्यामि । एवं ब्रुवाणस्यानुशासनं कर्तव्यम्-भद्र ! साम्प्रतं तव चारित्रावारककर्मणामनुदयो वर्तते, अतो 20 मा प्रमादीः, को जानाति भूयोऽपि तेषामुदयो भवेत् ?; आवश्यकाभिहितश्च (नियु० गा० ८३२ पत्र ३४५-१) कूर्मचर्मदृष्टान्तस्तत्पुरतः प्ररूपणीयः । एवमनुशिष्य प्रस्थापनं कर्तव्यम् । तत्र च तथैव मुण्डितेतरयोः प्रत्येकं चत्वारो नवका भवन्ति । एवं प्रथमद्वितीयदिवसयोरव्याहतानां कल्पो विधीयते ॥ ४६७६ ॥ अथ "ज्ञापिते कथं कल्पो वास्तव्ये वाताहृतेऽपि च" (गा० ४६६०) इति द्वारमाह वाताहडे वि णवगा, तहेव जाणाविए य इयरे य । एमेव य वत्थव्वे, णवगाण गमो अजाणते ॥ ४६७७ ॥ वाताहृतो द्विधा-ज्ञापित इतरश्च । यः क्षेत्रिकाणां यशःकीर्तिमपि न जानाति स आगन्तुकसाधुभिः 'त्वमस्माकं नाभवसि, ये गतास्तेषामेवाभवसि' इति सद्भावावगमं कारितो ज्ञापित १°; चर्म भा० ॥ २ आवश्यकाभिहितः कुर्मचर्मदृष्टान्तोऽयम्-“एगो दहो जोयणसयसहस्सविच्छिण्णो चम्मेण णद्धो । एग से मज्झे छि९ जत्थ कच्छभस्स गीवा मायति । तत्थ कच्छभो वाससते वाससते गते गीवं पसारेति । तेण कह वि गीवा पसारिता, जाव तेण छिडेण णिग्गता । तेण जोतिसं दिट्ट् कोमुदीए पुप्फ-फलाणि य। सो आगतो 'सयणिज्जयाणं दाएमि' आणेत्ता सव्वतो पलोएति, ण पेच्छति । भवि सो, ण य माणुसातो ॥" ३°तादीनां भा० डे० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444