________________
१२६० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ यतो मृत्युः 'अकरुणहृदयः' स्वभावादेः कठोराशयः तथा कथमप्यापनति यथा आपतन्नपि न दृश्यते । उक्तं च
श्वःकार्यमद्य कुर्वीत, पूर्वाह्ने चापरालिकम् ।
को हि तद् वेत्ति कस्याद्य, मृत्युसेनाऽऽपतिष्यति ॥ ॥४६७४ ॥ 6 तथा
तूरह धम्म काउं, मा हु पमायं खणं पि कुव्वित्था ।
बहुविग्घो हु मुहुत्तो, मा अवरण्हं पडिच्छाहि ॥ ४६७५ ॥ भो भव्याः ! त्वरध्वं धर्म कर्तुम् , मा क्षणमपि प्रमादं कुरुध्वम् । कुतः ? इत्याह-बहवःशूल-विष-विसूचिका-शस्त्रघाता-ऽमिदाहादिभेदादनेके विघ्नाः-जीवितान्तराया यत्रासौ बहु10 विघ्नः, हुशब्दो यस्मादर्थे, अपिशब्दस्य चानुक्तस्यापि गम्यमानत्वाद् यस्माद् मुहूर्तोऽपि बहुविघ्नः, आस्तां प्रहर-दिवसादिः, अतो महाभाग ! मा प्रव्रज्याग्रहणेऽपरालमपि प्रतीक्षिष्ठाः । एवमनुशासनं कृत्वा चतुर्भिर्नवकैस्तथैव प्रेषणीयम् ॥ ४६७५ ।। ___ गतं "पुणो दाई" ति द्वारम् । अथ यावज्जीवपराजितद्वारमाह
बहुसो उपट्टियस्सा, विग्घा उढिति जज्जिय जितो मि ।
अणुसासण पत्थवणं, णवगा य भवे समुंडियरे ॥ ४६७६ ॥ क्षेत्रिकाणां गमनवृत्तान्तं ज्ञात्वा कोऽपि शैक्षो ब्रूयात्-'बहुशः' अनेकशः प्रव्रज्याग्रहणायोपस्थितोऽहम् , परं वारंवारं विना नवनवा उत्तिष्ठन्ते, अतो "जज्जियं" यावज्जीवमहं विर्जितोऽस्मि, यदेवं ते साधवो विहृतवन्तः, अतः परं तेषु समागतेषु प्रव्रजिष्यामि । एवं
ब्रुवाणस्यानुशासनं कर्तव्यम्-भद्र ! साम्प्रतं तव चारित्रावारककर्मणामनुदयो वर्तते, अतो 20 मा प्रमादीः, को जानाति भूयोऽपि तेषामुदयो भवेत् ?; आवश्यकाभिहितश्च (नियु० गा० ८३२ पत्र ३४५-१) कूर्मचर्मदृष्टान्तस्तत्पुरतः प्ररूपणीयः । एवमनुशिष्य प्रस्थापनं कर्तव्यम् । तत्र च तथैव मुण्डितेतरयोः प्रत्येकं चत्वारो नवका भवन्ति । एवं प्रथमद्वितीयदिवसयोरव्याहतानां कल्पो विधीयते ॥ ४६७६ ॥ अथ "ज्ञापिते कथं कल्पो वास्तव्ये वाताहृतेऽपि च" (गा० ४६६०) इति द्वारमाह
वाताहडे वि णवगा, तहेव जाणाविए य इयरे य ।
एमेव य वत्थव्वे, णवगाण गमो अजाणते ॥ ४६७७ ॥ वाताहृतो द्विधा-ज्ञापित इतरश्च । यः क्षेत्रिकाणां यशःकीर्तिमपि न जानाति स आगन्तुकसाधुभिः 'त्वमस्माकं नाभवसि, ये गतास्तेषामेवाभवसि' इति सद्भावावगमं कारितो ज्ञापित
१°; चर्म भा० ॥ २ आवश्यकाभिहितः कुर्मचर्मदृष्टान्तोऽयम्-“एगो दहो जोयणसयसहस्सविच्छिण्णो चम्मेण णद्धो । एग से मज्झे छि९ जत्थ कच्छभस्स गीवा मायति । तत्थ कच्छभो वाससते वाससते गते गीवं पसारेति । तेण कह वि गीवा पसारिता, जाव तेण छिडेण णिग्गता । तेण जोतिसं दिट्ट् कोमुदीए पुप्फ-फलाणि य। सो आगतो 'सयणिज्जयाणं दाएमि' आणेत्ता सव्वतो पलोएति, ण पेच्छति । भवि सो, ण य माणुसातो ॥" ३°तादीनां भा० डे० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org