________________
भाष्यगाथाः ४६६५ -७४]
तृतीय उद्देशः ।
१२५९
न द्रक्ष्यामि ततः पुनरप्यत्रैव 'प्रत्येष्यामि' प्रत्यागमनं करिष्ये इति बुद्ध्या नागन्तुकैरात्मानं मुण्डापयति, एवममुण्डितं प्रेषयन्ति ॥ ४६६९ ॥
एवं तावदुभयज्ञविषयो विधिरुक्तः, अथ रूपज्ञादिविषयं तमेवातिदिशन्नाह - एसेव य णवगकमो, सद्दं रूवं व होइ जाणंते ।
जो पुण कित्ति जाणति, ण ते वयं सिस्सते तस्स ॥ ४६७० ॥
5
एष एव नवकमः शब्दं रूपं च जानति शैक्षे वक्तव्यः, शब्दज्ञे रूपज्ञे चेत्यर्थः । यः पुनः शैक्षः कीर्त्तिमेव जानाति न रूपं न वा शब्दं तस्य 'शिष्यते' निवेद्यते - ते वयं न भवामो येषां सकाशे भवान् प्रत्रजितुमायात इति ॥ ४६७० ॥ ततो ब्रूयात्
--
किं व न कप्पर तुब्भं, दिक्खेडं तेसि तं ण अम्हं ति ।
तत्थ वि सो चेव गमो, णवगाणं जो पुरा भणितो ॥ ४६७१ ॥ किं वा युष्माकं दीक्षयितुं न कल्पते ? । ततः साधुभिर्वक्तव्यम् — तेषामेव त्वमाभवसि नास्माकम् । एवमुक्ते यद्यसौ भणति - यद्येवं तर्हि मां प्रत्राज्य तत्र प्रेषयत अमुण्डितं वा विसर्ज - यत; ततस्तत्रापि स एव ‘गमः' प्रकारो यः सङ्घाटका -ऽऽत्मद्वितीयादिभिर्भेदैर्निष्पन्नानां नवकानां पुरा भणितः ॥ ४६७१ ॥ अथ “अभिधारणम्मि एए, खित्तम्मि विपरिणया वा वि" ( गा० ४६६३ ) इति पश्चार्धं व्याचष्टे ->
विपरिणया वि जति ते, अम्हे तुझं भणंतऽलं तेहिं ।
तहविया विते तेर्सि, अव्वाहयमादिया होंति ।। ४६७२ ॥ ये अव्याघातादयो वाताहृतान्ता शैक्षा अत्र प्रस्तुतास्ते क्षेत्रिकमभिधार्य प्रथममागता अपि कुतोऽपि तस्तं प्रति विपरिणताः सन्तो यद्यागन्तुकान् भणन्ति – वयं युष्माकं सकाशे प्रव्रजिष्यामः 'अलं' पर्याप्तं 'तैः' पूर्वसाधुभिरिति; 'तथाऽपि' एवं ब्रुवाणा अपि 'ते' अव्याह - 20 तादयः 'तेषाम्' आगन्तुकानां न भवन्ति, किन्तु क्षेत्रिकस्यैवेति ॥ ४६७२ ॥
जं कल्ले कायव्वं, परेण अजेव तं वरं काउं ।
म अकलुणहिअओ, न हु दीसह आवयंतो वि ॥ ४६७४ ॥ 'यद्' दीक्षाग्रहणादि कार्यं 'कल्ये' द्वितीयदिने नरेण कर्त्तव्यं तदद्यैव कर्तुं 'वरं' प्रशस्यम्, १ एतदन्तर्गत मवतरणं भ० नास्ति ॥
10
गतमव्याघातद्वारम् । अथ “पुणो दाई” ( गा० ४६५९ ) ति द्वारमाह - एहिंति पुणो दाई, पुढे सिद्वंसि ईय भणमाणा ।
बहुदो से माणुस्से, अणुसासण णवग तह चैत्र । ४६७३ ॥
आगन्तुकसाधूनां समीपे 'कुत्र गताः ?' इति पृष्टे ततस्तैः 'शिष्टे' 'अमुकन्त्र गताः' इति 25 कथिते स शैक्षो ब्रूयात् – “एहिंति पुणो दाई” ति यदा ते पुनरत्रागमिष्यन्ति तदा प्रव्रजिष्यामि “ईय” एवं भणन् स वक्तव्यः – सौम्य ! 'बहुदोषे' बह्वन्तराये मानुष्ये मा प्रमादं कृथाः । एवमनुशासनं कृत्वा 'तथैव' नवकगमेन प्रेषणं कर्त्तव्यम् ॥ ४६७३ ॥ अनुशासनमेव विशेषत उपदर्शयति
-
Jain Education International
15
For Private & Personal Use Only
30
www.jainelibrary.org