________________
१२५८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५
क्षेत्रिकेषु निर्गतेषु योऽसावुभयज्ञः शैक्षः सः 'प्रव्रजामि' इत्यभिप्रायेणागतो यावदागन्तुकान् साधून पश्यति ततस्ते साधवस्तस्य प्रियमप्रियं वा भावं प्रहसितमुखतया दीनमुखतया वा दृष्ट्या पृच्छन्ति–किमेवं प्रहृष्टवदनश्चिन्तापरो वा दृश्यसे ? । एवं पृष्ट्वा तेन स्वस्वरूपे कथिते सति
"साहति" सद्भावं कथयन्ति, यथा---गतास्तेऽन्यत्र विहारेणेति । यद्वा स खयमेव पृच्छेत्5 कुत्र गतास्ते भगवन्तः । एवं पृष्टाः सन्तो भणन्ति-किं तैर्भवतः प्रयोजनम् ? ॥४६६४ ॥ स प्राह
पव्यइहं ति य भणिते, अमुगत्थ गया वयं ति दिक्खेउं ।
तेसि समीवं णेमो, ण य वाहणते तयं सो य ॥ ४६६५ ॥ 'प्रव्रजिष्याम्यहम्' इति तेन भणिते साधवो वदन्ति--ते क्षेत्रिका अमुकत्र ग्रामादौ गताः, 10 वयं भवन्तं 'दीक्षयित्वा' प्रव्राज्य तेषां समीपे नयामः, स च 'तकम्' अनन्तरोक्तं वचनं 'न च' नैव व्याहन्ति, न विकुट्टयति-तथेति प्रतिपद्यते इत्यर्थः, एषोऽव्याघात उच्यते ॥ ४६६५ ।।
संघाडग एगेणं, पंथुवएसे व मुंडिए तिण्णि ।
इइ तरुण मज्झ थेरे, एकेके तिनि नव एते ॥ ४६६६ ॥ ततः साधवस्तं प्रव्राज्य सङ्घाटकेन सह क्षेत्रिकाणामन्तिके प्रेषयन्ति १, अथ सङ्घाटको न 16 पूर्यते तत एकं साधुं सहायं दत्त्वा मुत्कलयन्ति २, तस्याप्यभावे एकाकिनमपि विसर्जयन्ति परं
पन्थानमुपदिशेयुः ३, एते तरुणस्य त्रयः प्रकाराः, मध्यम-स्थविरयोरप्येवमेव प्रत्येकं त्रयः, एते नव भवन्ति ९ । एष प्रथमो नवकः ॥ ४६६६ ॥
पढमदिणे सग्गामे, एगो णवगो बितिजए बितिओ।
एमेव परग्गामे, पढमे बितिए य वे णवगा ॥ ४६६७॥ 20 एषः ‘एकः' प्रथमो नवकः प्रथमदिने स्वग्रामे प्रत्राज्य प्रेषयतां मन्तव्यः, द्वितीये दिवसे
एवमेव द्वितीयो नवकः, एवं खग्रामे द्वौ नवकावुक्तौ । परनामेऽपि 'एवमेव' प्रथम-द्वितीयदिवसयोद्वौ नवको । एवमेते चत्वारो नवका मुण्डितं प्रेषयतां भवन्ति ॥ ४६६७ ॥
एमेव अमुंडिस्स वि, चउरो णवगा हवंति कायया ।
एमेव य इत्थीण वि, णवगाण चउक्कगा दुण्णि ॥ ४६६८॥ 25 एवमेवामुण्डितस्यापि प्रेष्यमाणस्य चत्वारो नवकाः कर्त्तव्या भवन्ति । एवमेते द्वे नवक
चतुष्टये पुरुषाणामुक्ते । स्त्रीणामप्येवमेव द्वौ नवकानां चतुष्को सङ्घाटका-ऽऽत्मद्वितीयादिभिः प्रकारैः कर्त्तव्यौ । अथ क्षेत्रिकाणामन्तिके न प्रेषयन्ति किन्तु स्वयमेव स्वीकुर्वन्ति ततश्चत्वारो गुरुकाः ॥ ४६६८ ॥ अथ किमर्थममुण्डितं प्रेषयन्ति ? इति उच्यते
सागारियसंकाए, णिच्छति घिच्छंति वा सयं मा मे ।
ते व अद8 पुणरवि, पञ्चेहममुंडितो एवं ॥ ४६६९ ॥ __ सागारिकाः-सज्ञातकास्तेषां शङ्कया-'माममी उत्पत्राजयेयुः' इति बुद्ध्या स्वग्रामे नेच्छति स शैक्षः प्रवजितुम् । यद्वा अमी साधवः प्रव्राज्य मा मां ग्रहीप्यन्ति, यदि च तान् साधून्
१°य वुत्ते, अमु' तामा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org