________________
भाष्यगाथाः ४६५६-६४] तृतीय उद्देशः ।
१२५७ न विद्यते व्याघातः-प्रव्रज्याविन्नो यस्य सोऽव्याघातः शैक्षः, पूर्वसाधुपु क्षेत्रान्निर्गतेष्वपि प्रव्रज्यां गृह्णाति न पुनः कालक्षेपं करोतीति भावः । "पुणो दाइं" ति 'पुनः' 'भूयोऽपि यदा किल ते साधवः समायास्यन्ति तदा प्रव्रजिष्यामि' इति कश्चित् शैक्षो ब्रूयात् । “जाक्जीव पसजिए" ति 'यदा यदाऽहं प्रव्रजितुमभिलषामि तदा तदा नवैर्नवैविघ्नैरुत्तिष्ठमानैर्यावज्जीवमहं पराजितः, अत एव मे साम्प्रतमपि व्याघात उत्थितो यदेवं साधवो विहारं कृतवन्तः' इति । कश्चिद् ब्रूयात् । एषां शैक्षाणामेकतरे प्रथम-द्वितीयदिवसयोः प्रव्रजितुमुपस्थिते 'ज्ञायके' रूपशब्दादिज्ञे 'कथं' केन प्रकारेण 'कल्पः' पूर्वसाधुसमीपप्रेषणादिको विधिविधीयते ॥४६५९॥ ___ तथा वास्तव्ये वा वाताहृते वा 'त्वमस्माकं नाभवसिं' इति ज्ञापिते कथं कल्पो भवेत् । । ऋजुर्नाम-य आचार्यादिरेतान् शैक्षान् पूर्वसाधुसमीपे प्रहिणोति, तद्विपरीतोऽनृजुः, एतयोश्चिन्ता कर्तव्या । अभिधारणम्-एकमनेकान् वा साधून मनस्याधाय शैक्षस्य गमनम् , तत्र कथमा-10 भाव्या-ऽनाभाव्यतायाः कल्पः क्रियते ॥ ४६६०॥
“एगग्गामे" त्ति यत्र ग्रामे क्षेत्रिकाः स्थितास्तत्रैव केनापि धर्मकथिना कोऽपि मिथ्यादृष्टिरुपशमितः स कस्याऽऽभवति ? । “अइच्छंते" ति कमप्याचार्यमभिधार्यातिकामति विवक्षितक्षेत्रमतीत्याग्रतो गच्छति शैक्षे कथं कल्पो विधीयते ! । तथा 'शिष्ये शिष्यविषया 'द्विविधा' सज्ञातका-ऽसज्ञातकशैक्षभेदाद् द्विप्रकारा मार्गणा भवति । प्रतीच्छके च 'एकविधा केवल-15 संज्ञातकविषया मार्गणा ॥ ४६६१ ॥
"पडिसेहियवचंते" ति भगवता प्रतिषिद्धम्-लानप्रतिचरणाव्याप्रतैः शैक्षों न प्रनाजनीयः, ये तु तं प्रव्राज्यान्यत्र प्रेषयन्ति तैः प्रेषिते तस्मिन् गच्छान्तरं व्रजति कथं कल्पो विधीयते ? । सङ्गारः-सङ्केतः स दत्तो यस्य शैक्षस्य स सङ्गारदत्तः, आहिताम्यादेराकृतिगणत्वात् क्तान्तस्य परनिपातः, तस्मिन्नपि कथं कल्पो विधीयते ? इति । एतत् सर्वे निरूपणीयमिति 20 द्वारश्लोकचतुष्टयसमासार्थः ॥ ४६६२ ।। अथ विस्तरार्थं बिभणिषुः प्रथमतो ये पूर्वमुभयज्ञादयः पुरुषा उक्तास्तद्विषयकवक्ष्यमाणप्रेषणभेदसङ्ग्रहायाह
चत्तारि णवग जाणंतगम्मि जाणाविए वि चत्तारि ।
अभिधारणम्मि एए, खित्तम्मि विपरिणया वा वि ॥ ४६६३ ॥ यः पूर्वमुभयज्ञ-रूपज्ञादिभेदात् चतुर्धा ज्ञायक उक्तः तत्र प्रत्येकं चत्वारः 'नवकाः' प्रेषण-25 विषया नवप्रकाररूपा भवन्ति । तथा योऽजानानः सन् साधुभिः 'त्वमस्माकं नाभवसि किन्तु पूर्वसाधूनाम्' इत्येवं ज्ञापितस्तत्रापि चत्वारो नवकाः । अभिधारणं नाम-मनसिकरणम्, ततः क्षेत्रिकं मनसिकृत्य यदि एते' अव्याघातादय आगतास्तदा विपरिणता अपि क्षेत्रस्वामिन एवाभाव्या इति सहाहगाथासमासार्थः ॥ ४६६३ ॥ अथैनामेव विवरीषुरव्याघातद्वारमङ्गीकृत्य तावदाह
पियमप्पियं से भावं, दटुं पुच्छितु तस्स साहति ।
कत्थ गता ते भगवं, पुट्ठा व भणंति किं तेहिं ॥ ४६६४ ।। १°ता क्रिय. का. भा० विना ॥ २ °षये वक्ष्यमाणभेद कां ॥
80
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org