SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १२५६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ रूपेण खरेण च तमुपलक्षयतीत्यर्थः । द्वितीयो रूपं जानाति न शव्दम् , तृतीयः शब्दं न रूपम् , चतुर्थकः पुनर्यशःकीर्ति जानाति । यशः-सर्वदिग्गामिनी प्रसिद्धिः, सैवैकदिग्गामिनी कीर्तिः, यशउपलक्षिता कीर्तिः यशःकीर्तिरिति समासः । यस्तु रूप-शब्द-यशःकीर्तीनामेकमपि न जानाति सोऽजानान उच्यते ॥ ४६५५ ॥ 5 अथ द्वितीयभनमादौ कृत्वा यथाक्रमममूनेव भङ्गान् व्याचष्टे उच्चारचेइगातिसु, पासति रूवं विणिग्गयस्सेगो । रति उति णितो, कासगमादी सुणति सदं ॥ ४६५६ ॥ चउथो पुण जसकित्ति, सुणेइ सग्गाम-वसभवासी वा । उभयं रूवं सदं, कित्तिं च ण जाणते चरिमो॥ ४६५७॥ 10 उच्चारभूमि-चैत्यवन्दनादिषु कार्येषु विनिर्गतस्याचार्यादे रूपम् एकः' द्वितीयः शैक्षः पश्यति न पुनः खरेण जानीते, उपाश्रये तस्यानागमनात् । तृतीयस्तु शैक्षः 'कर्षकादिः' कर्षकः-कृषीवलस्तत्प्रभृतिकः सकलमपि दिवसं क्षेत्रादौ स्थित्वा 'रात्रौ' प्रदोषे गृहमुपागच्छन् प्रभाते च भूयोऽपि निर्गच्छन् धर्मकथायाः परिवर्तनाया वा शब्दं शृणोति न तु रूपमवलोकते ॥ ४६५६ ॥ 15 चतुर्थस्तु शैक्षः खग्रामवासी प्रतिवृषभग्रामवासी वा दूरस्थः सन् न रूपं पश्यति न च धर्मकथादिशब्दं शृणोति, किन्तु लोकमुखेन तेषामाचार्यादीनां यशःकीर्तिं शृणोति । यस्तु 'चरमः' अजानानः शैक्षः स रूप-शब्दात्मकमुभयं कीर्ति च न जानाति, परं गृहवासनिर्विण्णतया प्रवज्यां ग्रहीतुमायातः । एवं वास्तव्यशैक्षः पञ्चविध उक्तः ॥ ४६५७ ॥ वायाहडो वि एवं, पंचविहो होइ आणुपुवीए ।। एएसिं सेहाणं, पत्तेयं मग्गणा इणमो ॥ ४६५८ ॥ 'वाताहृतो नाम' आगन्तुकशैक्षः सोऽपि ‘एवमेव' वास्तव्यशैक्षवत् पञ्चविधः 'आनुपूर्व्या' यथोक्तपरिपाट्या वक्तव्यः । अथैतेषां दशानामपि शैक्षाणां 'प्रत्येक' पृथक् पृथग् 'इयम्' एतेषु द्वारेषु 'मार्गणा' विचारणा भवति ।। ४६५८ ॥ . तान्येव द्वाराण्यभिघित्सुः श्लोकचतुष्टयमाह अव्वाघाए पुणो दाई, जावज्जीव पराजिए। पढम-बिइयदिवसेसुं, कहं कप्पो उ जाणते ॥ ४६५९ ॥ जाणाविए कहं कप्पो, वत्थव्वे वाताहडे ति य । उज्जू अणुजुए या वि, कहं कप्पोऽभिधारणे ॥४६६० ॥ एगग्गामे अतिच्छंते, कहं कप्पो विहिजते । दुविहा मग्गणा सीसे, एगविहा य पडिच्छए ॥ ४६६१॥ पडिसेहियवच्चंते, कहं कप्पो विहिजइ । संगारदिण्णते यावि, कहं कप्पो विहिजइ ॥४६६२ ॥ १ तद्यथा-अव्वा भा०॥ 20 2D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy