________________
भाष्यगाथाः ४६५०-५५] तृतीय उद्देशः ।
१२५५ 'कालद्वये' ऋतुबद्ध-वर्षावासलक्षणे क्वचित् क्षेत्रे वसतां स्वग्रामजनः-सक्रोशयोजनाभ्यन्तरवर्ती अन्यग्रामजनश्च 'उपशान्तः' प्रतिवुद्धः । कथम् ? इत्याह-सूत्रार्थतदुभयविशारद आचार्यः सातिशयं प्रवचनव्याख्यानं करोति, क्षपको मासक्षपणादि तपस्तप्यते, धर्मकथी क्षीराश्रवादिलब्धिसम्पन्नतया वैराग्यजननी धर्मकथां विदधाति, वादी परवादिनं निरुत्तरीकरोति । एवमादिभिः प्रभावकैः स्वग्रामीणोऽन्यग्रामीणश्च भूयान् जनः प्रव्रज्यायां परिणतः कृतः॥४६५१॥ ।
नीरोगेण सिवेण य, वासावासासु णिग्गया साहू ।
अण्णे वि य विहरंता, तं चेव य आगया खित्तं ॥ ४६५२ ॥ 'नीरोगेण' ग्लान्याभावेन 'शिवेन च' राजदौस्थ्याद्युपप्लवाभावेन वर्षावासं कृत्वा ते साधवो निर्गताः । इह 'वर्षावासे भूयान् काल एकत्र स्थीयते, ततः प्रभूतलोकस्योपशमो भवति' इत्यभिप्रायेण वर्षावासग्रहणं कृतम् , अन्यथा ऋतुबद्धेऽपि मासकल्पानन्तरमेव विहारः सम्भ-10 वति । एवं ते ततः क्षेत्राद् निर्गता अन्ये च साधवो विहरन्तस्तदेव क्षेत्रमागताः॥ ४६५२ ॥ तत्रावग्रह चिन्तां चिकीर्षुराह
खित्तोग्गहप्पमाणं, तदिवसं केति केतऽहोरत्तं ।
जं वेल णिग्गयाणं, तं वेलं अण्ण दिवसम्मि ।। ४६५३ ॥ इह केचिदाचार्याः क्षेत्रावग्रहस्य कालप्रमाणं ब्रुवते—यस्मिन् दिवसे ते निर्गतास्तमेवैकं 15 दिवसमवग्रहः, तत ऊर्दू रात्राववग्रहो व्यवच्छिद्यते । केचित्तु भणन्ति-अहोरात्रमवग्रहः, द्वितीयेऽह्नि सूर्योदयेऽवग्रहो व्यवच्छिद्यत इति भावः । सूरिराह-द्वावप्येतावनादेशी, अयं पुनरादेशः-- यस्यां वेलायां निर्गतास्तामेव वेलां यावदन्यस्मिन् दिवसेऽवग्रहो भवति, ततः परं व्यवच्छिद्यते । इत्थं कालतः प्रमाणमुक्तम् । क्षेत्रतस्तु सर्वतः सक्रोशं योजनमवग्रहः, तत ऊर्द्धमनवग्रह इति ॥ ४६५३ ॥
खेत्तम्मि य वसहीय य, उग्गहों तहिं सेहमग्गणा होइ ।
ते वि य पुरिसा दुविहा, रूवं जाणं अजाणं च ॥ ४६५४ ॥ इहावग्रहः क्षेत्रे वा भवेद् वसतौ वा । यद् इन्द्रकीलादिवर्जितं ग्राम-नगरांदि तदिह क्षेत्रं मन्तव्यम् , तत्रावग्रहं प्रतीत्य शैक्षमार्गणा कर्तव्या, कस्याऽऽभवति ? कस्य वा न ? इति विचारयितव्यमित्यर्थः । यत् पुनरिन्द्रकीलादियुक्तं तदवग्रहयोग्य क्षेत्रं न भवतीत्यक्षेत्रमभिधीयते, 25 तत्र वसतिविषया शैक्षमार्गणा भवति, सा चोपरिष्टात् करिष्यते । क्षेत्रविषयां तावत् करोति"ते वि य" इत्यादि, ये पुरुषास्तत्र क्षेत्रे प्रव्रज्यां ग्रहीतुमायातास्ते द्विविधाः-एके रूपं जानन्तोऽपरेऽजानन्तः ॥ ४६५४ ॥ इदमेव व्यक्तीकरोति
जाणंतमजाणंता, चउव्विहा तत्थ होति जाणंता।
उभयं एवं सद, चउत्थओ होइ जसकित्तिं ॥ ४६५५ ॥ ___ जानन्तोऽजानन्तश्चेति शैक्षा द्विविधाः । तत्र जानन्त्रस्तावत् चतुर्विधाः, तद्यथा-एकः शैक्षो विवक्षितक्षेत्रस्थितस्याचार्यादेः 'उभयं रूपं शब्दं च जानाति, धर्मकथाश्रवणार्थं समागतो १णा विधया । यथाप्रतिज्ञातमेव करोति-"त वि य" भा० ॥
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org