SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 5 १२५४ 15 30 सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अवग्रहप्रकृते सूत्रम् २५ अव ग्रह प्र कृ त म् जद्दिवसं समणा निग्गंधा सिजा संधारयं विप्पजहंति तद्दिवसं अवरे समणा निग्गंथा हवमागच्छिना स चैत्र उग्गहस्स पुवाणुण्णवणा चिट्ठइ अहालंदमवि उग्गहे २५ ॥ सूत्रम् अस्य सूत्रस्य कः सम्बन्धः ? इत्याह 7 10 पूर्व सूत्रे तावदवग्रह एव 'प्रकृतः ' प्रस्तुतो वर्त्तते, "दोचं पि उग्गहं अणुण्णविता " (सू० २४ ) इति वचनात् इदमपि प्रकृतसूत्रमवग्रहविषयम् । यद्वा पूर्वसूत्रद्वये सागारिकावग्रह उक्तः, इह तु सागारिकावग्रहादनन्तरं साधर्मिकावग्रहः प्रतिपाद्यते । अथवा पूर्वसूत्रेषु संस्तारकं प्रत्यर्प्य विहारः कर्त्तव्य इत्युक्तम्, अत्र तु विहारे कृते तैः साधुभिर्विरहितमपि तत् क्षेत्रं कियन्तं कालमवग्रहयुक्तं भवति ? इति निरूप्यते । एष सम्बन्धः || ४६५० ॥ अनेनायातस्यास्य व्याख्या– “जद्दिवसं" ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया, ततो यस्मिन् दिवसे श्रमणा निर्ग्रन्थाः शय्या च - वसतिः संस्तारकश्च - तृण- फलकात्मकः शय्या - संस्तारकम् । अत्र शय्याग्रहणेन ऋतुबद्धकालः सूचितः, संस्तारकग्रहणेन तु वर्षाकालः, अथवा कारणजाते ऋतुबद्धेऽपि संस्तारको गृह्यते इति कृत्वा संस्तारकग्रहणेन द्वावपि गृहीतौ; ततो मासकल्पे वर्षावासे वा पूर्णे शय्यां संस्तारकं वा यस्मिन् दिवसे पूर्वस्थिताः साधवः 'विप्रजहति' परित्य20 जन्ति तद्दिवस एवापरे श्रमणा निर्ग्रन्थास्तत्र क्षेत्रे "हबं" शीघ्रमागच्छेयुः ततः सैवावग्रहस्य पूर्वानुज्ञापना तिष्ठति । किमुक्तं भवति ? — य एव ततः क्षेत्राद् निर्गतास्तेषामेवावग्रहे तत् क्षेत्रम्, ये तु तद्दिवसमन्ये आगतास्ते क्षेत्रोपसम्पन्ना इति कृत्वा यत् तत्र सचितादिकं तत् पूर्वस्थितानामाभाव्यम् । कियन्तं कालं यावद् ? इत्याह - " अहालंदमवि उग्गहे " इह यस्यां वेलायां ते साधवो निर्गतास्तावतीं वेलां यावद् द्वितीयेऽप्यहि तेषामेवावग्रहो भवतीति वक्ष्यते, 25 ततः यथालन्दम् इहाष्ट पौरुषी प्रमाणं मध्यमं गृह्यते, एतावन्तमपि कालं तदीय एवावग्रहे तत् क्षेत्रम्, अतो यद्यागन्तुकास्तत्र सचित्तादिग्रहणं कुर्वन्ति तदा साधर्मिकस्तैन्यप्रत्ययं प्रायश्चित्तमापद्यन्ते । अत्र तु सचित्तेनाधिकार इति सूत्रार्थः ॥ अथ निर्युक्तिविस्तरः, तत्र सचित्तावग्रहः शैक्षविषय इति कृत्वा प्रथमतस्तदुत्पत्तिं दर्शयति —– उग्गह एव उपगतो, सागारियउग्गहाउ साहम्मी । रहितं व होइ खित्तं, केवतिकालेस संबंधो ॥ ४६५० ॥ Jain Education International सुत्त-त्थ तदुभयविसारए य खमए य धम्मकहि वाई । कालदुअम्मि वसंते, उवसंतों स-अण्णगामजणो ।। ४६५१ ॥ १ एतच्चिद्धान्तर्गतः पाठः भा० नास्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy