________________
भाष्यगाथाः ४६४०-४९] तृतीय उद्देशः ।
१२५३ यूयमपि तावत् तं संम्तारकं मार्गयत, अहमपि तं "झोसेमि" त्ति गवेषयामि, अथ युष्माकं त्वरितं संस्तारकेण प्रयोजनं तदा यावदसौ लभ्यते तावदन्यं मार्गयत । यस्तु प्रान्तः स सद्भावे कथिते भणति-नष्टेऽपि संस्तारके यूयं मम न नष्टाः, यतो जानीथ ततः संस्तारकमानयत मूल्यं वा प्रयच्छत । एवं प्रान्ते 'वदति' ब्रुवाणेऽनुशिष्टि-धर्मकथा-विद्या-मन्त्रादि तथैव प्रयोक्तव्यम् ॥ ४६४५ ॥ तथाऽप्यतिष्ठति विद्यादीनामभावे वा मूल्यं मार्गयत इयं यतना-5
मोल्लं णत्थहिरण्णा, उवधिं मे देह पंतदायणया।
अन्न व देंति फलगं, जयणाएं मग्गिउं तस्स ॥ ४६४६ ॥ अहिरण्या वयम्, नास्ति मूल्यम् । स ब्रूयात्-उपधिं प्रयच्छत । ततो येन साधुना स संस्तारक आनीतः तस्य सत्कमन्तप्रान्तमुपकरणं दर्शनीयम् । अन्यं वा फलकं यतनया मार्गयित्वा ददति । तच्च प्रथमतः शुद्धम् , तदभावे पञ्चकपरिहाण्या, राजकुले वा गत्वा व्यवहारः क्रियते--10
दत्त्वा दानमनीश्वर० ॥ इति ।। एतेन "मग्गण दाणं च ववहारे" (गा० ४६२६) त्ति पदं व्याख्यातम् ॥४६४६॥
सव्वे वि तत्थ रंभति, भद्दो मुल्लेण जाव अवरहे।
एगं ठवेउ गमणं, सो वि य जावट्टमं काउं ॥४६४७॥ कोऽपि राजवल्लभादिः सर्वानपि साधूंस्तत्र निरुणद्धि ततो यदि कश्चिद् यथाभद्रको मूल्येन 15 मोचयति स न प्रतिषेद्धव्यः । अथ प्रतिषेधं कुर्वन्ति तदा चतुर्गुरु । अथ नास्ति मोचयिता ततोऽपराहं यावत् सर्वेऽपि सबाल-वृद्धास्तिष्ठन्ति । यदि न मुञ्चति तत एकं क्षपकादिकं स्थापयित्वा शेषाः सर्वेऽपि गच्छन्ति । सोऽपीदृशः स्थाप्यते योऽष्टमं कर्तुं समर्थो भवति । असमर्थस्थापने चतुर्गुरु । ततोऽसावष्टमं कृत्वा पलायते ॥ ४६४७ ॥ लद्धे तीरियकज्जा, तस्सेवऽप्येति अहव भुंजंति ।
30 पभुलद्धे वऽसमत्ते, दोच्चोग्गह तस्स मूलाओ ॥ ४६४८॥ लब्धे संस्तारके यदि 'तीरितकार्याः' समाप्तप्रयोजनास्ततः 'तस्यैव' संस्तारकस्वामिनो अर्पयन्ति । अथ कार्यमसमाप्तं ततो भुञ्जते । अथ प्रभुणा-संस्तारकखामिना लब्धः साधूनां च कार्यमद्याप्यसमाप्तं ततस्तस्य मूलाद् यद् द्वितीयं वारमवग्रहोऽनुज्ञाप्यते एष सूत्रोक्तो द्वितीयावग्रहः ॥ ४६४८ ॥ अथ द्वितीयपदमाह
बितियं पभुनिधिसए, णट्ठिय सुन्न मयमणप्पज्झे ।
असहू य रायदुद्वे, बोहिकभय सत्थ सीसे वा ॥ ४६४९ ।। ___ द्वितीयपदमत्र भवति-संस्तारकेण कार्य समाप्तम् , योऽपि संस्तारकस्य प्रभुः स राज्ञा निर्विषय आज्ञप्तः, देशभङ्गे वा नष्टः, दुर्भिक्षे वा 'उत्थितः' उद्वसितः, “सुन्ने" ति सपुत्र-दारः कुत्राप्यामन्त्रितः सन् गतो गृहं शून्यं सञ्जातम् , 'मृतो वा' कालगतः; एतानि गृहस्थकारणानि । अमूनि तु 30 संयतकारणानि-स साधुरसहिष्णुर्न शक्नोति गवेषयितुम् , राजद्विष्टे बोधिकभये वा अध्वशीर्षके वा सार्थवशगः । एतैः कारणैर्विप्रणष्टं संस्तारकं न गवेषयेत् , न च प्रायश्चित्तमाप्नुयात् ॥४६४९॥
॥शय्यासंस्तारकप्रकृतं समाप्तम् ।।
25
१°णाएँ विमग्गिउं तस्सा ताभा०॥ २ सब्वे व तत्थ तामा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org