________________
१२५२ सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [ शय्या० प्रकृते सूत्रम् २४ उच्यते-स संस्तारकस्वामी न ज्ञाप्यते, यथा-नष्टः संस्तारकः, किन्तु गत्वा भणितव्यम्देहि तं संस्तारकं निर्देजमिदानीम् , एष द्वितीयावग्रह उच्यते । गुरुराह
दिटुंत पडिहणेत्ता, जयणाए भद्दतो विसज्जेती ।
मग्गंते जयणाए, उवहिग्गहणे ततों विवाओ॥ ४६४० ॥ 5 दृष्टान्तो नाम-नोदकेन खमत्या योऽभिप्रायो दृष्टः तं 'प्रतिहन्य(त्य)' निराकृत्य संस्तारकखामिनो यतनया सद्भावः कथनीयः । कथिते च भद्रको विसर्जयति-गच्छत नाहं किञ्चिदपि भणामि । यः प्रान्तः स संस्तारकं मार्गयति तत्रानुशिष्टिः कर्त्तव्या । अथ नेच्छति तदा यतनया प्रान्तोपधितव्यः । अथ बलादेव सारोपधेर्ग्रहणं करोति ततो राजकुले विवादः कार्यः ॥ ४६४०॥ अमुमेवार्थं व्याख्याति
परवयणाऽऽउट्टेउं, संथारं देहि तं तु गुरु एवं ।
आणेह भणति पंतो, तो णं दाहं ण दाहं वा ॥ ४६४१॥ परः-प्रेरकस्तस्य वचनमत्र भवति-"आउट्टेउं" ति धर्मकथया संस्तारकखामी आवर्त्य याच्यते-तं संस्तारकं निर्देशं प्रयच्छ । गुरुराह-एवं मायया याचमानस्य चतुर्गुरुकम्,
भद्रक-प्रान्तकृताश्च दोषा भवन्ति । प्रान्तो भणति-आनयत तं संस्तारकं ततो दास्यामि वा 15 न वा ॥ ४६४१॥ किञ्च
दिजंतो वि न गहिओ, किं सुहसेजो इयाणि सो जाओ।
हिय नट्ठो वा नूणं, अथक्कजायाइ सूएमो ॥४६४२ ॥ दीयमानोऽपि तदा निर्देजो न गृहीतः, किमसौ संस्तारकः इदानीं सुखशय्यः सञ्जातः ? । अनया 'अथकयाच्या ' अकालप्रार्थनया 'सूचयामः' सूचां कुर्मः स नूनं हृतो वा नष्टो वा ॥ ४६४२॥ 20
भद्दो पुण अग्गहणं, जाणंतो वा वि विप्परिणमेजा।
किं फुडमेव न सीसइ, इमे हु अन्ने वि संथारा ॥ ४६४३ ॥ यः पुनर्भद्रकः स साधुषु 'अग्रहणम्' अनादरं कुर्यात् , यो वा जानाति 'संस्तारको हृतो नष्टो वा' इति स सम्यग्दर्शन-प्रव्रज्याद्यभिमुखो विपरिणमेत्-अहो ! मायाविनोऽमी । विपरिणतश्च
ब्रूयात्-किं स्फुटमेवास्माकं 'न शिष्यते' न कथ्यते यथा संस्तारको नष्टः !, किंमेवं मायया 25 याच्यते ?, इमे 'हुः' इति प्रत्यक्षमुपलभ्यमाना अन्येऽपि संस्तारकाः सन्ति ॥ ४६४३ ।।
इइ चोयगदिटुंतं, पडिहंतुं सिस्सते से सब्भावो।
भद्दो सो मम नट्ठो, मग्गामि न तो पुणो दाहं ॥ ४६४४ ॥ 'इतिः' उपप्रदर्शने । एवं भद्रक-प्रान्तदोषोपदर्शनेन 'नोदकदृष्टान्तं' पराभिप्रायं प्रतिहत्य तत्त्वमुच्यते-'तस्य' संस्तारकखामिनः सद्भावः 'शिष्यते' निवेद्यते । निवेदिते च भद्रको 30 भणति–स संस्तारको मम नष्टो न युष्माकम् , अद्य प्रभृति नाहं मार्गयामि, लब्धं तु त पुनरपि युष्मभ्यं दास्यामि ॥ ४६४४ ॥
तुम्भे वि ताव मग्गह, अहं पि झोसेमि मग्गह व अन्नं । नढे वि तुब्भऽणट्ठा, वदंति पंतेऽणुसद्वादी ॥ ४६४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org