________________
10
भाष्यगाथाः ४६३१-३९] तृतीय उद्देशः ।
१२५१ यामि अदेशकवद् अन्धवद्वा ?' इति प्रान्ते ब्रुवाणेऽनुशिष्टि-धर्मकथा-निमित्तादि तथैव प्रयोक्तव्यम् ॥ ४६३५॥
असतीय भेसणं वा, भीया वा भोइयस्स व भएणं ।
साहित्थ दारमूले, पडिणीय इमेसु वि छुभेजा ॥ ४६३६ ॥ अथ नास्ति तत्र भोगिकोऽस्ति वा परं न दापयति तदा साधवो भेषणं कुर्वन्ति । ततो 3 भीता वा भोगिकस्य वा भयेन द्वारमूले 'संहरन्ति' संस्तारकं स्थापयन्तीत्यर्थः । यस्तु प्रत्यनीकः सः 'एतेष्वपि' पृथिव्यादिषु कायेषु प्रक्षिपेत् , 'यद्यस्माकं न जातस्तत एतेषामपि मा भूत्' इति कृत्वा । एष पुरातनगाथासमासार्थः ॥ ४६३६ ॥ अथैनामेव व्याख्याति
भोइयमादीणऽसती, अदवावेंते व बिंति जणपुरओ।
मुज्झीहामों सकजे, किह लोगमयाइँ जाणंता ॥ ४६३७॥ भोगिकादीनामभावे तेषु वा संस्तारकमदापयत्सु साधवो बहुजनस्य पुरतो ब्रुवते—वयं । लोकमतानि जानन्तः स्वकार्ये कथं मुह्यामहे ?, ये हि लोकस्य नष्टं विनष्टं विस्मृतं वा जानीमस्ते कथमात्मीयं न ज्ञास्यामः? इति भावः, अतो यद्यस्माकं संस्तारकं नार्पयथ ततो वयं जनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः ॥ ४६३७ ॥ अथ यूयं न प्रतीथ ततः पश्यथपेहुणतंदुल पच्चय, भीया साहंति भोइगस्सेते ।।
18 साहत्थि साहरन्ति व, दोण्ह वि मा होउ पडिणीए ॥ ४६३८ ॥ तन्दुला द्विविधाः क्रियन्ते-एके पेहुणमिश्रिता अपरे केवला एव । पेहुणं नाम-मयूराङ्गगिरः । तत एकः साधुः साधूनां मध्यादपसरति गृहस्थांश्च भणति-युष्माकं मध्यादेकः किमप्युपकरणं गृहातु । ततो गृहीते सति स साधुरागत्य भणति-पतया सर्वेऽपि तिष्ठत । स्थितेषु च स नैमित्तिकसाधुरुदकं तेषामञ्जलौ ददाति, येन च साधुना तद् गृह्यमाणं दृष्टं स 20 तन्दुलान् प्रयच्छन् येन गृहीतं तस्य पेहुणमिश्रितान् ददाति, ततो नैमित्तिकसाधुस्तानि पेहुणानि दृष्ट्वा भणति-अनेन गृहीतमिति । एवं प्रत्यये उत्पन्ने भीताश्चिन्तयन्ति–नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति । एवं विचिन्त्य खहस्तेन प्रतिश्रयद्वारमूले संस्तारकं स्थापयन्ति । प्रत्यनीका वा 'द्वयोरपि वर्गयोः' अस्माकममीषां च मा भूदिति बुद्ध्या एतेषु गत्वा संहरन्ति ॥ ४६३८ ॥
पुढवी आउकाए, अगड वणस्सइ-तसेसु साहरइ । [ओ.नि. २७४]
चित्तूण य दायव्यो, अदिट्ठ दड्ढे य दोचं पि ॥ ४६३९ ॥ कश्चित् प्रत्यनीकः साधुसामाचारीकोविदः 'सचित्तपृथिव्यप्काय-वनस्पति-त्रसेषु प्रक्षिप्तं न ग्रहीष्यन्ति' इति बुद्ध्या तेषु 'अगडे वा' गर्तायां प्रक्षिपति । यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारकखामिनो दातव्यः । अथ प्रयत्नेन गवेषितोऽपि न कुत्रापि दृष्टः, यद्वा स 30 प्रत्यनीकतया तेन दग्धः ततः "दोचं पि" ति द्वितीयमपि वारमवग्रहमनुज्ञापयेत् ॥ ४६३९॥
परः प्राह-यथाऽहं भणामि तथा द्वितीयावग्रहोऽनुज्ञापनीयः । कथम् ? इति चेद १ न समर्पय भा० ॥ २ °रपि' अस्मा भा० ॥ ३°पु संह° डे० का० ॥
.
93
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org