SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ १२५० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [शय्या० प्रकृते सूत्रम् २४ 'एते' भोगिकादयो यदि दापयन्ति ततो लष्टम् । अथवा ते भणेयुः-स संस्तारकः कस्य दातव्यः ? इति; ततः साधुभिः 'अमुकस्य' इति भणिते ते ब्रुवते-बजत यूयम् , वयमेव तस्यार्पयिष्याम इति ॥ ४६३० ॥ जति सिं कजसमत्ती, वयंति इहरा उ घेत्तु संथारं । दिट्टे जाते चेवं, अदिट्ठऽणाए.इमा जयणा ॥ ४६३१ ॥ यदि "सिं" तेषां साधूनां तेन संस्तारकेण कार्यसमाप्तिः सञ्जाता मासकल्पश्च पूर्णस्ततो भोगिकादिभिर्विसर्जिता व्रजन्ति, 'इतरथा' संस्तारककार्येऽसमाप्तेऽपूर्णे मासकल्पे तं वाऽन्यं वा संस्तारकं गृहीत्वा परिभुञ्जते । एवं दृष्टे संस्तारके ज्ञाते वा स्तेने विधिरुक्तः । अदृष्टेऽज्ञाते चेयं यतना भवति ॥ ४६३१ ॥ 10 विजादीहि गवेसण, अद्दिटे भोइयस्स व कधेति । जो भद्दओ गवसति, पंते अणुसढिमाईणि ॥ ४६३२ ॥ विद्यादिभिः संस्तारकस्तेनस्य गवेषणा कर्तव्या । अथ न सन्ति विद्यादयस्ततोऽदृष्टेऽज्ञाते स्तेने भोगिकस्य कथयन्ति । ततो यो भद्रको भवति स खयमेव गवेषयति, यस्तु प्रान्तः स खयं न गवेषयति, ततस्तत्रानुशिठ्यादीनि पदानि प्रयोक्तव्यानि ॥ ४६३२ ॥ 15 एषा पुरातनगाथा, अत एनां व्याख्यानयति आभोगिणीय पसिणेण देवयाए निमित्ततो वा वि । एवं नाए जयणा, स चिय खंतादि जा राया ॥ ४६३३ ॥ आभोगिनी नाम विद्या सा भण्यते या परिजपिता सती मानसं परिच्छेदमुत्पादयति, सा यद्यस्ति ततस्तया येन संस्तारको गृहीतः स आभोग्यते । एवं 'प्रश्नेन' अङ्गुष्ठ-स्वप्नप्रश्नादिना, 20 देवतया वा क्षपकपृष्टया, निमित्तेन वा अविसंवादिना तं स्तेनं जानन्ति । एवं ज्ञाते सति सैव यतना कर्त्तव्या या खन्तादिगृहीते संस्तारके भणिता यावदपश्चिमो राजा ॥ ४६३३ ॥ एतेषामभावे विधिमाह विजादऽसई भोयादिकहण केण गहिओ न जाणऽम्हे । दीहो हु रायहत्थो, भद्दो आम ति मग्गति य ॥ ४६३४ ॥ 25 विद्यादीनामभावे न ज्ञायते केनापि गृहीत इति ततो भोगिकादीनां कथयन्ति-संस्तारकोऽस्माकं नष्टो वर्तते, यूयं तं गवेषयत । भोगिकः प्राह-केन गृहीतः ? । साधवो ब्रुवतेन जानीमो वयम् । भोगिकः प्राह-अज्ञायमानं कथं गवेषयामि ? । साधुभिर्वक्तव्यम्-----दी? हि राजहस्तो भवति, तेन हि गवेष्यमाणः सुखेनैव स्तेनः प्राप्येत । ततो यो भद्रको भवति सः 'आम' सत्यमिदम् इति भणित्वा मार्गयति ॥ ४६३४ ॥ प्रान्तः पुनरिदमाह30 जाणह जेण हडो सो, कत्थ विमग्गामि णं अजाणतो। इति पंते अणुसट्ठी-धम्म-निमित्ताइ तह चेव ॥ ४६३५ ॥ यः प्रान्तः स ब्रूयात्- 'जानीत यूयं येनासौ संस्तारको हृतः, अजानानस्तु कुत्राहं मार्ग१ तादिसु तहेव ताभा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy