________________
5
भाप्यगाथाः ४६७५-८३] तृतीय उद्देशः ।
१२६१ उच्यते, इतरी नाम-यशःकीर्तिज्ञः । तत्र ज्ञापिते 'इतरसिंध' वाताहृते प्रवजितुमायाते तथैव चत्वारो नवका भवन्ति । वास्तव्योऽपि शैक्षो यः क्षेत्रिकाणां यशःकीर्तिमपि न जानाति तत्रापि नवकानां गम एवमेव मन्तव्यः ।। ४३७७ ॥ अथ वास्तव्यो वाताहृतो वा यशःकीर्तिमपि न जानाति स कीदृशो भवेत् ? उच्यते
वत्थव्वे वायाहड, सेवग परतित्थि वणिय सेहे य ।।
सव्वेतें उजुगो अप्पिणाइ मेलाइ वा जत्थ ॥४६७८ ॥ वास्तव्यो वा वाताहृतो वा यो राजकुलसेवको यो वा परतीर्थिको यश्च वणिग् एते अस. निहितत्वेन यशःकीर्तिमपि गुरूणां न जानीयुः, परं प्रथमद्वितीयदिवसयोः प्रबजितुमायातास्तेऽपि क्षेत्रिकाणामाभाव्याः । अथ ऋजु-अनृजुद्वारचिन्ता क्रियते-य आचार्य ऋजुर्भवति स सर्वानप्येतान् क्षेत्रिकाणामर्पयति, यत्र वा क्षेत्रिका भवन्ति तत्र सङ्घाटकादिभिः प्रकारैः 10 प्रेषयित्वा तैः सह मीलयति ॥ ४६७८ ॥
माइल्ले बारसगं, जाणग जाणाविए य चत्तारि ।
वत्थव्वे वायाहड, ण लभति चउरो अणुग्धाया ॥४६७९ ॥ यस्तु 'मायावी' अनृजुः स न प्रेषयति, तत्र च प्रकाराणां द्वादशकं भवति, तच्चाने वक्ष्यते । तथा ज्ञायके ज्ञापिते च समुदिताश्चत्वारः प्रकारा भवन्ति, तद्यथा-ज्ञायकं प्रथमदिवसे न 15 प्रेषयति १, द्वितीये तमेव न प्रेषयति, २, एवं ज्ञापितस्यापि द्वौ प्रकारौ । एतैर्वक्ष्यमाणैश्च प्रकारैर्वास्तव्यं वाताहृतं वाऽप्रेषयतश्चत्वारोऽनुद्धाता मासाः, न च तान् शिष्यान् लभते, कुलस्थविरादिभिर्बलात् क्षेत्रिकाणां दाप्यते इत्यर्थः ॥ ४६७९ ॥ अथात्रैव प्रायश्चित्तवृद्धिमाह
सत्तरत्तं तवो होती, ततो छेदो पहावई ।
छेदेण छिण्णपरियाए, तओ मूलं तओ दुगं ॥ ४६८०॥ 20 प्रागिव (गा० १५५८) द्रष्टव्यम् ॥ ४६८० ॥ प्रकारद्वादशकमाह
तरुणे मज्झिम थेरे, तद्दिण बितिए य छक्कगं इकं । एमेव परग्गामे, छकं एमेव इत्थीसु ॥ ४६८१ ॥ पुरिसित्थिगाण एते, दो बारसगा उ मुंडिए होति ।
एमेव य ससिहम्मि य, जाणग जाणाविए भयणा ॥ ४६८२॥ 25 तरुण-मध्यम-स्थविरान् प्रत्येकं तद्दिवसे द्वितीयदिने वाऽप्रेषयत एकं प्रकारषदकं भवति. एतच्च खग्रामविषयम् , परनामेऽपि एवमेव प्रकारषट्कम् । सर्वेऽप्येते द्वादश प्रकाराः पुरुषेष भणिताः । एवमेव च स्त्रीष्वपि प्रकारद्वादशकं भवति ।। ४६८१ ॥ __ एते द्वे द्वादशके पुरुष-स्त्रीणां मुण्डितविषये भवतः । एवमेव च सशिखाकेऽपि शैक्षे द्वादशकद्वयम् । तदेवं ज्ञायके ज्ञापिते च प्रत्येकं "भयण" ति भनकविकल्पास्तेषां चत्वारि 30 द्वादशकानि भवन्ति ॥ ४६८२ ।। अथवा
अव्याहए पुणो दाति, जावजीवपरादिए । तद्दिण बीयदिणे या, सग्गामियरे य बारसहा ।। ४६८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org