________________
१२६२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ अव्याहतः पुनरागतप्रव्रजितो यावज्जीवपराजितश्चेति त्रयः शैक्षाः । एतान् तदिने द्वितीयदिने वाऽप्रेषयतः प्रकारषट्कम् । एतच्च खग्रामे 'इतरसिंश्च' परनामे भवतीति कृत्वा द्वाभ्यां गुणितं द्वादशधा भवति ॥ ४६८३ ॥ अथ ऋजु-अनृजुलक्षणमाह
जाणंतमजाणते, णेइ व पेसेइ वा अमाइल्लो ।
सो चेव उजुओ खलु, अणुअतो जो ण अप्पेति ॥ ४६८४ ॥ जानतो अजानतो वा शैक्षान् योऽमायावी स क्षेत्रिकाणां समीपे खयं नयति वा परहस्तेन वा प्रेषयति स एव ऋजुक उच्यते । अनृजुस्तु सोऽभिधीयते यो नार्पयति न वा प्रेषयति ॥ ४६८४ ॥ अथैते वास्तव्या वाताहृता जानन्तोऽजानन्तो वाऽनृजुभिः प्रवाजिताः कथं पश्चात् परिज्ञायन्ते ? उच्यते-स्नाना-ऽनुयानादिषु यत्र मिलितास्तत्र क्षेत्रिकैः कश्चिदनृजुप्र. 10 व्रजितो वाताहृतः पृष्टः-कथं भवान् प्रव्रजितः ?, स भणति
तुभ चिय णीसाए, मि आगतो दिक्खितो बला णेहिं ।
अम्हे किमपव्वइया, पुट्ठा व ण ते परिकहेंसु ॥४६८५ ॥ युष्माकमेव निश्रया अहमागतः अमीभिश्च बलाद् दीक्षितः, मया भृशममी पृष्टास्तत एभिराख्यातम्-वयं किं प्रव्रजिता न भवामो यदेवं तान् मार्गयसि ?; यद्वा न ते पृष्टाः सन्तः 16 किमप्याख्यातवन्तः ॥ ४६८५ ॥ एवं रूप-शब्द-यशःकीर्तिज्ञो वक्ति । यस्तु कीर्तिमपि न जानाति स ब्रूयात्
वायाहडो तु पुट्ठो, भणाइ अमुगदिण अमुगकालम्मि ।
एतेहिं दिक्खितोऽहं, तुम्हे वि सुणामि तत्थाऽऽसी ॥ ४६८६ ।। तुशब्दस्य विशेषणार्थतया यो वाताहृतो यशःकीर्तेरप्यज्ञायकः स पृष्टो भणति-'अमु90 कदिने' प्रतिपदादौ अमुष्मिन् काले-मार्गशीर्षादौ मासे दीक्षितोऽहमेतैः, दीक्षानन्तरं च शृणोमि, यथा-यूयमपि तत्रासीरन्निति ॥ ४६८६ ॥
एमेव य जसकित्ति, जाणतो जो य तं ण जाणाति ।
तस्स वि तहेव पुच्छा, पावयणी वा जदा जातो ॥ ४६८७॥ ___ एवमेव वास्तव्योऽपि यो यशःकीर्ति जानाति यश्च तां न जानाति तस्यापि तथैव स्नानादौ 26 यदा पृच्छा कृता भवति तदा ज्ञायते । यदा वाऽसौ 'प्रावचनिकः' बहुश्रुतो जातः तदा खयमेव जानाति-नाहममीषामाभाव्यः ॥ ४६८७॥ एवं तावत् सचित्तविषयो विधिरुक्तः । अथाचित्तादिविषयं तमेवातिदिशन्नाह
एमेव य अचित्ते, दुविहे उवधिम्मि मीसते चेय ।
पुच्छा अपुव्वमुवहिं, दट्टण अणुजुभूयाणं ॥ ४६८८ ॥ so एवमेवाचित्ते 'द्विविधे' ओघोपग्रहोपधिभेदाद द्विप्रकारे उपधौ ‘मिश्रके च' सोपधिकशैक्षे विधिमन्तव्यः । कथं पुनरसावाभाव्योऽनाभाव्यो वा ज्ञायते ? इत्याह- 'अपूर्व' सारतरमुपधिं दृष्ट्वा अनृजुभूतानां तेषामन्तिके पृच्छा भवति, क्षेत्रिकैरयं कदा कुत्र वा गृहीतः ?' इत्येवं ते प्रष्टव्या इति भावः ॥ ४३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org