________________
१२६३
भाष्यगाथाः ४६८४-९२] तृतीय उद्देशः ।
एवं वासावासे, उडुबद्धे पंथें जत्थ वा अति । ___ सव्वत्थ होति उग्गहों, केसिंचि पतीवदिटुंतो ॥ ४६८९ ॥ एवं वर्षावासे ऋतुबद्धे वा विधिर्मन्तव्यः । एतच्च सचित्तमङ्गीकृत्योक्तम् । अचिते तु वर्षावासे वा ऋतुबद्धे वा मासद्वयं दिवसपञ्चकं च पूर्वावग्रह इति, पथि वा व्रजतां यत्र काप्याचार्यस्तिष्ठति तत्र सर्वतः सक्रोशं योजनमवग्रहो भवति, तत्राप्येवमेव सचित्तादीनामाभाव्या-ऽनाभाव्यविधिरवसातव्यः । केषाश्चिदाचार्याणामयमभिप्रायः--मार्ग गच्छतां पृष्ठतो वा नास्त्यवग्रहः; अयं चानादेशः । कुतः ? इत्याह-प्रदीपदृष्टान्तोऽत्र भवति । यथा हि प्रदीपः सर्वतः प्रकाशयति नैकामपि दिशं प्रकाशशून्यां करोति, एवमवग्रहोऽपि सर्वतो भवति, न कुत्रचिन्न भवत्यपीति ॥ ४६८९ ॥ एवं तावत् क्षेत्रे सचित्तादिविषयो विधिरुक्तः। अथाक्षेत्रे तमेवातिदिशति
10 अक्खित्ते वसधीए, जाणग जाणाविए वि एमेव ।
उजुगमणुजगे या, सो चेव गमो हवइ तत्थ ॥ ४६९०॥ 'अक्षेत्रे' इन्द्रकीलादियुक्ते नगरादौ सक्रोशं योजनमवग्रहो न भवति, किन्तु तत्र यस्यां वसतौ यः पूर्व स्थितस्तस्यां सचित्तादिकं यदुपतिष्ठते तत् तस्य आभवति, न पश्चादागतानाम् । तत्रापि य एव क्षेत्रे गम उक्तः स एव सर्वोऽपि ज्ञायके ज्ञापिते च ऋजुकेऽनृजुके च 15 वक्तव्य इति ॥ ४६९०॥ अथ "कथं कल्पोऽभिधारणे" ( गा० ४६६०) इति निर्वचन्नाह
अणिदिट्ठ सण्णऽसण्णी, गहिता-गहिए य ओह सच्छंदो।
णिदिट्ट लिंगसहितो, सण्णी तस्सेव णऽण्णस्स ॥ ४६९१ ॥ 'अभिधारणं' प्रव्रज्यार्थमाचार्यादेर्मनसा सङ्कल्पनम् , तच्च द्विधा-अनिर्दिष्टं निर्दिष्टं च । 20 अनिर्दिष्टं नाम-अभिधारयन् कमप्याचार्य विशेषतो न निर्दिशति । स चाभिधारको द्विधा--- संज्ञी असंज्ञी च । पुनरेकैको द्विधा-गृहीतलिङ्गोऽगृहीतलिङ्गश्च । एष सर्वोऽप्योघतः-सामान्येनाचार्यविशेषमनिर्दिश्य वजन् स्वच्छन्द आभाव्यो भवति, यस्यान्तिके प्रव्रजति तस्यैवासौ शिष्य इत्यर्थः । निर्दिष्टं पुनः-अभिधारणं तदुच्यते यत्र 'अमुकस्याचार्यस्य समीपे प्रवजिष्यामि' इति निर्देशं करोति । एषोऽपि द्विधा-संज्ञी असंज्ञी च । भूय एकैको द्विधा-25 लिङ्गसहितो लिङ्गरहितश्च । तत्र लिङ्गसहितः संज्ञी यमाचार्यमभिधार्य गच्छति विपरिणतोऽपि तस्यैवासौ भवति, नान्यस्य ॥ ४६९१ ॥
निद्दिढे अस्सण्णी, गहिया-ऽगहिए य अगहिए सण्णी।
तस्सेव अविपरिणते, विपरिणते जस्स से इच्छा ॥ ४६९२ ॥ योऽसंज्ञी स गृहीतलिङ्गो अगृहीतलिङ्गो वा भवतु, यस्तु 'संज्ञी' श्रावकः सोऽगृहीत-30 लिङ्गः एते त्रयोऽप्यविपरिणते भावे यं निर्दिष्टमाचार्यमभिधार्य गच्छन्ति तस्यैवाभवन्ति । अथ तं प्रति भावो विपरिणतस्ततो यस्य सकाशे तेषां प्रबजितुमिच्छा तस्यैव ते शिष्याः ॥ ४६९२ ॥ अथ किं कारणं लिङ्गसहितो बजति ? इत्याद ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org