Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 393
________________ १२५८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [अवग्रहप्रकृते सूत्रम् २५ क्षेत्रिकेषु निर्गतेषु योऽसावुभयज्ञः शैक्षः सः 'प्रव्रजामि' इत्यभिप्रायेणागतो यावदागन्तुकान् साधून पश्यति ततस्ते साधवस्तस्य प्रियमप्रियं वा भावं प्रहसितमुखतया दीनमुखतया वा दृष्ट्या पृच्छन्ति–किमेवं प्रहृष्टवदनश्चिन्तापरो वा दृश्यसे ? । एवं पृष्ट्वा तेन स्वस्वरूपे कथिते सति "साहति" सद्भावं कथयन्ति, यथा---गतास्तेऽन्यत्र विहारेणेति । यद्वा स खयमेव पृच्छेत्5 कुत्र गतास्ते भगवन्तः । एवं पृष्टाः सन्तो भणन्ति-किं तैर्भवतः प्रयोजनम् ? ॥४६६४ ॥ स प्राह पव्यइहं ति य भणिते, अमुगत्थ गया वयं ति दिक्खेउं । तेसि समीवं णेमो, ण य वाहणते तयं सो य ॥ ४६६५ ॥ 'प्रव्रजिष्याम्यहम्' इति तेन भणिते साधवो वदन्ति--ते क्षेत्रिका अमुकत्र ग्रामादौ गताः, 10 वयं भवन्तं 'दीक्षयित्वा' प्रव्राज्य तेषां समीपे नयामः, स च 'तकम्' अनन्तरोक्तं वचनं 'न च' नैव व्याहन्ति, न विकुट्टयति-तथेति प्रतिपद्यते इत्यर्थः, एषोऽव्याघात उच्यते ॥ ४६६५ ।। संघाडग एगेणं, पंथुवएसे व मुंडिए तिण्णि । इइ तरुण मज्झ थेरे, एकेके तिनि नव एते ॥ ४६६६ ॥ ततः साधवस्तं प्रव्राज्य सङ्घाटकेन सह क्षेत्रिकाणामन्तिके प्रेषयन्ति १, अथ सङ्घाटको न 16 पूर्यते तत एकं साधुं सहायं दत्त्वा मुत्कलयन्ति २, तस्याप्यभावे एकाकिनमपि विसर्जयन्ति परं पन्थानमुपदिशेयुः ३, एते तरुणस्य त्रयः प्रकाराः, मध्यम-स्थविरयोरप्येवमेव प्रत्येकं त्रयः, एते नव भवन्ति ९ । एष प्रथमो नवकः ॥ ४६६६ ॥ पढमदिणे सग्गामे, एगो णवगो बितिजए बितिओ। एमेव परग्गामे, पढमे बितिए य वे णवगा ॥ ४६६७॥ 20 एषः ‘एकः' प्रथमो नवकः प्रथमदिने स्वग्रामे प्रत्राज्य प्रेषयतां मन्तव्यः, द्वितीये दिवसे एवमेव द्वितीयो नवकः, एवं खग्रामे द्वौ नवकावुक्तौ । परनामेऽपि 'एवमेव' प्रथम-द्वितीयदिवसयोद्वौ नवको । एवमेते चत्वारो नवका मुण्डितं प्रेषयतां भवन्ति ॥ ४६६७ ॥ एमेव अमुंडिस्स वि, चउरो णवगा हवंति कायया । एमेव य इत्थीण वि, णवगाण चउक्कगा दुण्णि ॥ ४६६८॥ 25 एवमेवामुण्डितस्यापि प्रेष्यमाणस्य चत्वारो नवकाः कर्त्तव्या भवन्ति । एवमेते द्वे नवक चतुष्टये पुरुषाणामुक्ते । स्त्रीणामप्येवमेव द्वौ नवकानां चतुष्को सङ्घाटका-ऽऽत्मद्वितीयादिभिः प्रकारैः कर्त्तव्यौ । अथ क्षेत्रिकाणामन्तिके न प्रेषयन्ति किन्तु स्वयमेव स्वीकुर्वन्ति ततश्चत्वारो गुरुकाः ॥ ४६६८ ॥ अथ किमर्थममुण्डितं प्रेषयन्ति ? इति उच्यते सागारियसंकाए, णिच्छति घिच्छंति वा सयं मा मे । ते व अद8 पुणरवि, पञ्चेहममुंडितो एवं ॥ ४६६९ ॥ __ सागारिकाः-सज्ञातकास्तेषां शङ्कया-'माममी उत्पत्राजयेयुः' इति बुद्ध्या स्वग्रामे नेच्छति स शैक्षः प्रवजितुम् । यद्वा अमी साधवः प्रव्राज्य मा मां ग्रहीप्यन्ति, यदि च तान् साधून् १°य वुत्ते, अमु' तामा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444