Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 392
________________ भाष्यगाथाः ४६५६-६४] तृतीय उद्देशः । १२५७ न विद्यते व्याघातः-प्रव्रज्याविन्नो यस्य सोऽव्याघातः शैक्षः, पूर्वसाधुपु क्षेत्रान्निर्गतेष्वपि प्रव्रज्यां गृह्णाति न पुनः कालक्षेपं करोतीति भावः । "पुणो दाइं" ति 'पुनः' 'भूयोऽपि यदा किल ते साधवः समायास्यन्ति तदा प्रव्रजिष्यामि' इति कश्चित् शैक्षो ब्रूयात् । “जाक्जीव पसजिए" ति 'यदा यदाऽहं प्रव्रजितुमभिलषामि तदा तदा नवैर्नवैविघ्नैरुत्तिष्ठमानैर्यावज्जीवमहं पराजितः, अत एव मे साम्प्रतमपि व्याघात उत्थितो यदेवं साधवो विहारं कृतवन्तः' इति । कश्चिद् ब्रूयात् । एषां शैक्षाणामेकतरे प्रथम-द्वितीयदिवसयोः प्रव्रजितुमुपस्थिते 'ज्ञायके' रूपशब्दादिज्ञे 'कथं' केन प्रकारेण 'कल्पः' पूर्वसाधुसमीपप्रेषणादिको विधिविधीयते ॥४६५९॥ ___ तथा वास्तव्ये वा वाताहृते वा 'त्वमस्माकं नाभवसिं' इति ज्ञापिते कथं कल्पो भवेत् । । ऋजुर्नाम-य आचार्यादिरेतान् शैक्षान् पूर्वसाधुसमीपे प्रहिणोति, तद्विपरीतोऽनृजुः, एतयोश्चिन्ता कर्तव्या । अभिधारणम्-एकमनेकान् वा साधून मनस्याधाय शैक्षस्य गमनम् , तत्र कथमा-10 भाव्या-ऽनाभाव्यतायाः कल्पः क्रियते ॥ ४६६०॥ “एगग्गामे" त्ति यत्र ग्रामे क्षेत्रिकाः स्थितास्तत्रैव केनापि धर्मकथिना कोऽपि मिथ्यादृष्टिरुपशमितः स कस्याऽऽभवति ? । “अइच्छंते" ति कमप्याचार्यमभिधार्यातिकामति विवक्षितक्षेत्रमतीत्याग्रतो गच्छति शैक्षे कथं कल्पो विधीयते ! । तथा 'शिष्ये शिष्यविषया 'द्विविधा' सज्ञातका-ऽसज्ञातकशैक्षभेदाद् द्विप्रकारा मार्गणा भवति । प्रतीच्छके च 'एकविधा केवल-15 संज्ञातकविषया मार्गणा ॥ ४६६१ ॥ "पडिसेहियवचंते" ति भगवता प्रतिषिद्धम्-लानप्रतिचरणाव्याप्रतैः शैक्षों न प्रनाजनीयः, ये तु तं प्रव्राज्यान्यत्र प्रेषयन्ति तैः प्रेषिते तस्मिन् गच्छान्तरं व्रजति कथं कल्पो विधीयते ? । सङ्गारः-सङ्केतः स दत्तो यस्य शैक्षस्य स सङ्गारदत्तः, आहिताम्यादेराकृतिगणत्वात् क्तान्तस्य परनिपातः, तस्मिन्नपि कथं कल्पो विधीयते ? इति । एतत् सर्वे निरूपणीयमिति 20 द्वारश्लोकचतुष्टयसमासार्थः ॥ ४६६२ ।। अथ विस्तरार्थं बिभणिषुः प्रथमतो ये पूर्वमुभयज्ञादयः पुरुषा उक्तास्तद्विषयकवक्ष्यमाणप्रेषणभेदसङ्ग्रहायाह चत्तारि णवग जाणंतगम्मि जाणाविए वि चत्तारि । अभिधारणम्मि एए, खित्तम्मि विपरिणया वा वि ॥ ४६६३ ॥ यः पूर्वमुभयज्ञ-रूपज्ञादिभेदात् चतुर्धा ज्ञायक उक्तः तत्र प्रत्येकं चत्वारः 'नवकाः' प्रेषण-25 विषया नवप्रकाररूपा भवन्ति । तथा योऽजानानः सन् साधुभिः 'त्वमस्माकं नाभवसि किन्तु पूर्वसाधूनाम्' इत्येवं ज्ञापितस्तत्रापि चत्वारो नवकाः । अभिधारणं नाम-मनसिकरणम्, ततः क्षेत्रिकं मनसिकृत्य यदि एते' अव्याघातादय आगतास्तदा विपरिणता अपि क्षेत्रस्वामिन एवाभाव्या इति सहाहगाथासमासार्थः ॥ ४६६३ ॥ अथैनामेव विवरीषुरव्याघातद्वारमङ्गीकृत्य तावदाह पियमप्पियं से भावं, दटुं पुच्छितु तस्स साहति । कत्थ गता ते भगवं, पुट्ठा व भणंति किं तेहिं ॥ ४६६४ ।। १°ता क्रिय. का. भा० विना ॥ २ °षये वक्ष्यमाणभेद कां ॥ 80 -- Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444