Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
भाज्यगाथाः ४५९८-४६०५] तृतीय उद्देशः ।
दिजंते वि तयाऽणिच्छितूण अप्पेमु मे त्ति नेतूणं ।
कयकजा जणभोगं, काऊण कहिं गया भच्छा ॥ ४६०१ ॥ ग्रहणकाले निर्देजमपि दीयमानं तदानीं नेच्छन्ति स्म । 'अनिष्य च' अनभिकाङ्ग्य मासकल्पे पूर्णे "भे" भवतामर्पयिष्याम इति भणनपूर्वकं नीत्वा साम्प्रतं 'कृतकार्याः' विहितात्मप्रयोजनाः शून्ये जनभोग्यं कृत्वा कुत्र ग्रामे नगरे वा गताः ? । “भच्छे"ति नैपातिकं पदं । कुत्सायां वर्तते, क पुनस्ते दुर्दृष्टधर्माणो गताः ? इत्यर्थः ।। ४६०१॥ अथ "कप्पट्ट खेल्लणे" इत्यादि विवृणोति
कप्पट्ट खेल्लण तुअट्टणे य लहुगो य होति गुरुगो य ।
इत्थी-पुरिसतुयट्टे, लहुगा गुरुगा अणायारे ॥ ४६०२ ॥ तत्र संस्तारके कल्पस्थकानि खेलन्ते लघुको मासः । अथ तान्येव त्वग्वयन्ति गुरुको 10 मासः । अथ महती स्त्री महान् पुरुषो वा त्वग्वर्त्तयति चतुर्लघु । अथैतावनाचारमाचरतस्तदा चतुर्गुरुकाः ॥ ४६०२॥
वोच्छेदे लहु-गुरुगा, नयणे डहणे य दोसु वी लहुगा।
विहणिग्गयादऽलंभे, जं पावें सयं व तु णियत्ता ॥ ४६०३ ॥ तस्यैवैकस्य साधोः तस्यैव चैकस्य द्रव्यस्य व्यवच्छेदे चतुर्लघु । अनेकेषां साधूनामन्य-15 द्रव्याणां च व्यवच्छेदे चतुर्गुरु । संस्तारकस्य कल्पस्थकैरन्यत्र नयने दहने च द्वयोरपि चतुर्लघवः । व्यवच्छेदकरणाच्च संस्तारकादेरलाभे विहम्-अध्वा तन्निर्गतादयो यत् परितापनादि प्राप्नुवन्ति खयं वा निवृत्तास्तत्र प्राप्ताः संस्तारकादिकमलभमानी यां विराधनामासादयन्ति तन्निष्पन्नं प्रायश्चित्तम् ॥ ४६०३ ॥
माइस्स होति गुरुगो, जति एकतों भागऽणप्पिए दोसा। 20
अह होंति अण्णमण्णे, ते च्चेव य अप्पिणणे सुद्धो ॥ ४६०४ ॥ - 'मायिनः' मायावतो गुरुको मासो भवति । कथं पुनर्मायां करोति ? इत्याह-यदि 'एकतः' एकस्माद् गृहादनेकैः साधुभिरनेके संस्तारका आनीतास्तदा “भाग" त्ति प्रत्यर्पणकाले तेषु पृथग्भागीकृतेषु य आत्मीयं भागं 'तत्रैव गृहे नेतव्यः' इति कृत्वा तेषां मध्ये प्रक्षिपति नात्मना तत्र नयति एष मायी भण्यते । अस्य च येऽनर्पिते संस्तारके दोषाः ते सर्वेऽपि 25 मन्तव्याः । अथान्यान्येभ्यो गृहेभ्य आनीताः संस्तारका भवन्ति तदापि मायाकरणे त एव दोषाः । तस्माद् यतो गृहादानीतस्तत्र विधिना प्रत्यर्पणे शुद्ध इति सङ्ग्रहगाथासमासार्थः ॥ ४६०४ ॥ अथैनामेव विवृणोति
संथारेगमणेगे, भयणट्टविहा उ होइ कायव्वा । पुरिसे घर संथारे, एगमणेगे तिसु पतेसु ॥ ४६०५॥
30 संस्तारके गृह्यमाणे एका-ऽनेकपदाभ्यामष्टविधा भजना कर्तव्या भवति, अष्टौ भङ्गा इत्यर्थः । सा चैतेषु त्रिषु पदेषु, तद्यथा-पुरुषे गृहे संस्तारके च । एतेषु एका-ऽनेकपदाभ्यामष्टौ
१°ना यदासाद भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444