Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 379
________________ १२४४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [शय्या प्रकृते सूत्रम् २२-२३ भङ्गाः, यथा---एकेन साधुना एकस्माद् गृहाद एक. संस्तारकः आनीतः १ एकेनकम्मादनेके २ एकेनाने केभ्यो गृहेभ्य एकः ३ एकेनानेकेभ्यो गृहेभ्योऽनेके संस्तारका आनीताः ४; एवमेकेन साधुना चत्वारो भगा लब्धाः, अनेकैरपि साधुभिरेवमेव चत्वारो भङ्गा लभ्यन्ते, सर्वसङ्ख्ययैतेऽष्टौ भङ्गाः ॥ ४६०५॥ आणयणे जा भयणा, सा भयणा होति अप्पिणंते वि। वोच्चत्थ मायसहिए, दोसा य अणप्पिणंतम्मि ॥ ४६०६ ॥ संस्तारकस्यानयने या 'भजना' अष्टभङ्गी भणिता सैव भजना संस्तारकमर्पयतोऽपि भवति, यथैवानीतस्तथैव प्रत्यर्पयितव्य इति भावः । अथ विपर्यस्तं प्रत्यर्पयति मायां वा करोति न वा सर्वथैवार्पयति ततो विपर्यस्ते मायासहितेऽनर्पयति च दोषा व्यवच्छेदादयो भवन्ति । तत्र 10 ये आद्याश्चत्वारो भङ्गास्तेषु यथैव ग्रहणं तथैवार्पयन्ति । पञ्चमभङ्गे ग्रहणकाले 'अस्माकमन्यतरः समर्पयिष्यति' इत्येष विधिर्न विहितस्ततो यद्येकः प्रत्यर्पयति तदा विपर्यस्तं भवति । षष्ठभङ्गे एकः साधुः प्रत्यर्पयितुं प्रस्थितः अपरश्चिन्तयति 'मदीया अपि तृणकम्बिकास्तत्रैव नेतव्या' इति कृत्वा तदीयानां तृणादीनां मध्ये प्रक्षिपति, एषा माया भण्यते । सप्तमे भने तृतीयभङ्गे वा कम्बिकास्तृणानि वा एकस्मिन् गृहेऽर्पयतोऽनर्पणं भवति । यत एते दोषास्तस्मात् पृथक् 15 पृथक् सर्वैरपि प्रत्यर्पणीयाः । कारणे पुनर्विपरीतमर्पयति न वा अर्पयति ॥ ४६०६ ॥ तदेव कारणमाह बिइयपय झामिते वा, देसुट्ठाणे व बोधिकभए वा । अद्धाणसीसए वा, सत्थो व पधावितो तुरियं ॥ ४६०७ ॥ द्वितीयपदे संस्तारको ध्यामितो भवेत् , देशोत्थाने वा संस्तारकखामी कुत्रापि गत इति न 20 ज्ञायते, बोधिकभये संस्तारकखामी साधवो वा नष्टाः, अध्वशीर्षके वा सार्थस्त्वरितं प्रधावितो यावत् संस्तारकं प्रत्यर्पयति तावत् सार्थो दूरं गच्छति अपरश्च सार्थो दुर्लभः ॥ ४६०७ ।। एतेहि कारणेहिं, वच्चंते को वि तस्स उणिवेदे । [आव.नि. ८४२] __ अप्पाहंति व सागारियाइ असदऽण्णसाहूणं ॥ ४६०८ ॥ एतैः कारणैर्न प्रत्यर्पयेयुः-अध्वशीर्षके च त्वरितं व्रजतामेकः कोऽपि साधुर्गत्वा तस्य 25 संस्तारकखामिनो निवेदयति-सार्थस्त्वरितं प्रधावितस्ततो नास्माभिः प्रत्यर्पितः, यूयं पुनस्तं संस्तारकमानयध्वम् । अन्यसाधूनां वा निवेदयन्ति-अमुकस्मिन् कुले संस्तारकः प्रत्यर्पणीयः । अन्यसाधूनाम् 'असति' अभावे सागारिकादीन् “अप्पाहन्ति" सन्दिशन्ति-एष संस्तारको. ऽमुकस्यार्पणीयः । एष तृणकम्बिकासु विधिरुक्तः ॥ ४६०८ ॥ एसेव गमो नियमा, फलएसु वि होइ आणुपुबीए । चउरो लहुगा माई, य नत्थि एयं तु नाणत्तं ॥ ४६०९॥ एष एव गमो नियमात् फलकेष्वप्यानुपूर्व्या वक्तव्यो भवति । नवरम् -प्रायश्चिते विशेषः । फलकमयस्य संस्तारकस्याप्रत्यर्पणे चतुर्लघुकाः । मायी च नास्ति, यथा तृणेषु कम्बि• कासु वा अपरास्तृणकम्बिकाः प्रक्षिप्यन्ते तथा फलकानां नास्ति प्रक्षेप इति भावः । एतद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444