________________
१२४४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [शय्या प्रकृते सूत्रम् २२-२३ भङ्गाः, यथा---एकेन साधुना एकस्माद् गृहाद एक. संस्तारकः आनीतः १ एकेनकम्मादनेके २ एकेनाने केभ्यो गृहेभ्य एकः ३ एकेनानेकेभ्यो गृहेभ्योऽनेके संस्तारका आनीताः ४; एवमेकेन साधुना चत्वारो भगा लब्धाः, अनेकैरपि साधुभिरेवमेव चत्वारो भङ्गा लभ्यन्ते, सर्वसङ्ख्ययैतेऽष्टौ भङ्गाः ॥ ४६०५॥
आणयणे जा भयणा, सा भयणा होति अप्पिणंते वि।
वोच्चत्थ मायसहिए, दोसा य अणप्पिणंतम्मि ॥ ४६०६ ॥ संस्तारकस्यानयने या 'भजना' अष्टभङ्गी भणिता सैव भजना संस्तारकमर्पयतोऽपि भवति, यथैवानीतस्तथैव प्रत्यर्पयितव्य इति भावः । अथ विपर्यस्तं प्रत्यर्पयति मायां वा करोति न वा
सर्वथैवार्पयति ततो विपर्यस्ते मायासहितेऽनर्पयति च दोषा व्यवच्छेदादयो भवन्ति । तत्र 10 ये आद्याश्चत्वारो भङ्गास्तेषु यथैव ग्रहणं तथैवार्पयन्ति । पञ्चमभङ्गे ग्रहणकाले 'अस्माकमन्यतरः
समर्पयिष्यति' इत्येष विधिर्न विहितस्ततो यद्येकः प्रत्यर्पयति तदा विपर्यस्तं भवति । षष्ठभङ्गे एकः साधुः प्रत्यर्पयितुं प्रस्थितः अपरश्चिन्तयति 'मदीया अपि तृणकम्बिकास्तत्रैव नेतव्या' इति कृत्वा तदीयानां तृणादीनां मध्ये प्रक्षिपति, एषा माया भण्यते । सप्तमे भने तृतीयभङ्गे वा कम्बिकास्तृणानि वा एकस्मिन् गृहेऽर्पयतोऽनर्पणं भवति । यत एते दोषास्तस्मात् पृथक् 15 पृथक् सर्वैरपि प्रत्यर्पणीयाः । कारणे पुनर्विपरीतमर्पयति न वा अर्पयति ॥ ४६०६ ॥ तदेव कारणमाह
बिइयपय झामिते वा, देसुट्ठाणे व बोधिकभए वा ।
अद्धाणसीसए वा, सत्थो व पधावितो तुरियं ॥ ४६०७ ॥ द्वितीयपदे संस्तारको ध्यामितो भवेत् , देशोत्थाने वा संस्तारकखामी कुत्रापि गत इति न 20 ज्ञायते, बोधिकभये संस्तारकखामी साधवो वा नष्टाः, अध्वशीर्षके वा सार्थस्त्वरितं प्रधावितो यावत् संस्तारकं प्रत्यर्पयति तावत् सार्थो दूरं गच्छति अपरश्च सार्थो दुर्लभः ॥ ४६०७ ।।
एतेहि कारणेहिं, वच्चंते को वि तस्स उणिवेदे । [आव.नि. ८४२]
__ अप्पाहंति व सागारियाइ असदऽण्णसाहूणं ॥ ४६०८ ॥ एतैः कारणैर्न प्रत्यर्पयेयुः-अध्वशीर्षके च त्वरितं व्रजतामेकः कोऽपि साधुर्गत्वा तस्य 25 संस्तारकखामिनो निवेदयति-सार्थस्त्वरितं प्रधावितस्ततो नास्माभिः प्रत्यर्पितः, यूयं पुनस्तं संस्तारकमानयध्वम् । अन्यसाधूनां वा निवेदयन्ति-अमुकस्मिन् कुले संस्तारकः प्रत्यर्पणीयः । अन्यसाधूनाम् 'असति' अभावे सागारिकादीन् “अप्पाहन्ति" सन्दिशन्ति-एष संस्तारको. ऽमुकस्यार्पणीयः । एष तृणकम्बिकासु विधिरुक्तः ॥ ४६०८ ॥
एसेव गमो नियमा, फलएसु वि होइ आणुपुबीए ।
चउरो लहुगा माई, य नत्थि एयं तु नाणत्तं ॥ ४६०९॥ एष एव गमो नियमात् फलकेष्वप्यानुपूर्व्या वक्तव्यो भवति । नवरम् -प्रायश्चिते विशेषः । फलकमयस्य संस्तारकस्याप्रत्यर्पणे चतुर्लघुकाः । मायी च नास्ति, यथा तृणेषु कम्बि• कासु वा अपरास्तृणकम्बिकाः प्रक्षिप्यन्ते तथा फलकानां नास्ति प्रक्षेप इति भावः । एतद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org