Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 377
________________ १२४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ शय्या० प्रकृते सूत्रम् २२ श व्या सं स्ता र क प्र कृ त म् सूत्रम् नो कप्पति निग्गंथाण वा निग्गंथीण वा पाडिहारियं सिज्जा-संथारयं आयाए अपडिहटु संपव्वएत्तए २२॥ 5- अस्य सूत्रस्य कः सम्बन्धः ? इत्याह अविदिण्णमंतरगिहे, परिकहणमियं पदिण्णमिइ जोगो । णिग्गमणं व समाणं, बहिं व वुत्तं इमं अंतो ॥ ४५९८ ॥ अन्तरगृहे यत् 'परिकथनम्' उपदेशप्रदानं तद् 'अवितीर्ण' तीर्थकरैर्गृहपतिना वा नानुज्ञातम् । 'इदमपि' प्रातिहारिकशय्या-संस्तारकस्याप्रत्यर्पणम् 'अदत्तम्' अननुज्ञातम् “इति' अयं 10 'योगः' सम्बन्धः । यद्वा निर्गमनं प्रतिश्रयाद् द्वयोरपि सूत्रयोः 'समानं' तुल्यम् । अथवा पूर्वसूत्रे प्रतिश्रयाद् ‘बहिः' भिक्षायां निर्गतस्य धर्मकथनं न कल्पते इत्युक्तम् , इदं पुनः 'अन्तः' प्रतिश्रयमध्ये संस्तारकस्य यद् निक्षेपणं तन्न कल्पते इत्यत्र प्रतिपाद्यते ॥ १५९८ ॥ । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रतिहरणं प्रतिहारः-प्रत्यर्पणं तमहतीति प्रातिहारिकं शय्या च-सर्वाङ्गीणा संस्तारकः-अर्धतृतीयहस्त15 मानः शय्या-संस्तारकं तद् 'आदाय' गृहीत्वा कार्यसमाप्तौ 'अप्रतिहृत्य' प्रत्यर्पणमकृत्वा 'सम्प्रवर्जितुं' नामान्तरं विहर्तुमिति सूत्रार्थः ।। 1 अथ भाष्यविस्तरः-- सिजा संथारो या, परिसाडी अपरिसाडि मो होइ । [नि. १३०१-९] परिसाडि कारणम्मि, अणप्पिणे मासों आणादी ॥ ४५९९ ।। शय्या संस्तारको वा परिशाटी अपरिशाटी च भवति । परिशाटी तृणादिमयः, अपरिशाटी 20 फलकादिमयः । तत्र परिशाटीसंस्तारकः कारणवशाद् ऋतुबद्धे गृहीतो भवेत् तं मासकल्पे पूर्णेऽनर्पयित्वा व्रजतो मासलघु आज्ञादयो दोषाः ॥ ४५९९ ॥ एते चापरे सोचा गत त्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेओ। कप्पट्ट खेल्लणे णयण डहण लहु लहुग गुरुगा य ॥ ४६००॥ संस्तारकखामिना श्रुतम्-संस्तारकमनर्पयित्वा गतास्ते संयताः; एवं श्रुत्वा यदि प्रीतिकं 25 करोति-'अनर्पितेऽप्यनुग्रह एवास्माकम्' इति ततश्चतुर्लघवः । अथाप्रीतिकं करोति-मदीयानि तृणानि हारितानि विनाशितानि वा इति तदा चतुर्गुरवः । यच्च तद्रव्यस्यान्यद्रव्यस्य वा व्यवच्छेदस्तदाऽपि चतुर्गुरुकम् । अथवा तस्मिन् संस्तारके शून्ये "कप्प?" त्ति बालकानि खेलन्ते ततो मासलघु, अथान्यत्र तं नयन्ति ततश्चतुर्लघु, अथाग्नौ प्रक्षिप्य दहन्ति चतुर्लघवः, दह्यमाने च तस्मिन्नन्येषां प्राणजातीयानां विराधना भवेत् तन्निष्पन्नं प्रायश्चित्तम् ॥ ४६०० ॥ 30 अथाप्रीतिकपदं व्याचष्टे १°जितुमिति सूत्रसमासार्थः भा० ॥ २ » एतदन्तर्गतः पाठः भा० का० एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444