Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 382
________________ भाष्यगाथाः ४६१४-२० तृतीय उद्देशः । १२४७ तत एवं "से" तस्य कल्पते 'द्वितीयमप्यवग्रहमनुज्ञाप्य' एकं तावत् प्रथमं यदा गृहीतस्तदाऽनुज्ञापितः, ततो विप्रणष्टः सन् गवेष्यमाणोऽपि यदा न लब्धस्तदा संस्तारकखामिनः कथिते सति यदसावन्यं संस्तारकं ददाति, यद्वा स एव संस्तारकखामिना मृग्यमाणो लब्धः ततस्तद्विषयं द्वितीयमवग्रहमनुज्ञाप्य 'परिहारं' धारणा-परिभोगलक्षणं 'परिहत्तुं' धातूनामनेकार्थत्वात् कर्तुमिति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः संथारो नासिहिती, वसहीपालस्स मग्गणा होति । सुन्नाई उ विभासा, जहेव हेट्ठा तहेव इहं ॥ ४६१६ ॥ शून्यायां वसतौ कृतायां संस्तारको नङ्ख्यतीति मत्वा प्रथमत एव वसतिरशून्या कर्त्तव्या येनासौ न नश्यति, अत एवात्र वसतिपालस्य मार्गणा भवति । कथम् ? इत्याह-“सुन्नाई" इत्यादि, यथैव ‘अधस्तात्' पीठिकायां शय्याकल्पिकद्वारे “सुन्ने बाल गिलाणे" (गा० ५४२) 10 इत्यादिका विभाषा कृता तथैवेहापि मन्तव्या ॥ ४६१६ ॥ स्थानाशून्यार्थ पुनरिदमाह पढमम्मि य चउलहुगा, सेसेसुं मासियं तु नाणत्तं । दोहि गुरू एक्केणं, चउथपदे दोहि वी लहुगा ॥ ४६१७॥ 'प्रथमे स्थाने' वसतेः शून्यताकरणलक्षणे चतुर्लघुकाः 'द्वाभ्यां' तपः-कालाभ्यां गुरुकाः । 15 'शेषेषु' बाल-ग्लाना-ऽव्यक्तस्थापनलक्षणेषु त्रिषु लघुमासिकम् । तच्च बालस्थापने तपसा गुरुकम्, ग्लानस्थापने कालेन गुरुकम् , 'चतुर्थपदे' अव्यक्तस्थापनात्मके 'द्वाभ्यामपि' तपः-कालाभ्यां लघुकम् ॥ ४६१७ ॥ अत्र दोषानुपदर्शयति मिच्छत्त-बडुग-चारण-भडाण मरणं तिरिक्ख-मणुयाणं । आएस बाल निकेयणे य सुन्ने भवे दोसा ॥ ४६१८॥ बलि धम्मकहा किड्डा, पमजणाऽऽवरिसणा य पाहुडिया । खंधार अगणि भंगे, मालवतेणा य नाई य ॥ ४६१९ ॥ गाथाद्वयं पीठिकायां सविस्तरं व्याख्यातम् (गा० ५४४-५५४)। यत एते दोषा अतो वसतिः शून्या न कर्तव्या, न वा बालो ग्लानोऽव्यक्तो वा वसतिपालः स्थापनीयः ॥ ४६१८॥ ४६१९ ।। संथारविप्पणासो, एवं खु न विञ्जतीति चोएति। [नि.गा.१३५४-८५] सुत्तं होइ य अफलं, अह सफलं उभयहा दोसा ।। ४६२०॥ 'नोदयति' परः प्रेरयति एवं 'खुः' अवधारणे सुरक्षिते क्रियमाणे संस्तारकस्य विप्रणाशो न विद्यते, तथा च "सेज्जासंथारए विप्पणसिज्जा" इत्यादिलक्षणं सूत्रमफलं भवति; अथ सूत्रं सफलं मन्यध्वे ततः 'बालादिदोषरहितो वसतिपालः स्थापनीयः' इति यदुक्तं तदफलं प्रामोति; 30 एवमुभयथाऽपि दोषा भवन्ति ॥ ४६२०॥ सूरिराह-यथा द्वयमपि सफलं भवति तथाऽभिधीयते निजंताऽऽणि जंता, आयातणनीणितो न हीरेजा। 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444