Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 386
________________ 10 भाष्यगाथाः ४६३१-३९] तृतीय उद्देशः । १२५१ यामि अदेशकवद् अन्धवद्वा ?' इति प्रान्ते ब्रुवाणेऽनुशिष्टि-धर्मकथा-निमित्तादि तथैव प्रयोक्तव्यम् ॥ ४६३५॥ असतीय भेसणं वा, भीया वा भोइयस्स व भएणं । साहित्थ दारमूले, पडिणीय इमेसु वि छुभेजा ॥ ४६३६ ॥ अथ नास्ति तत्र भोगिकोऽस्ति वा परं न दापयति तदा साधवो भेषणं कुर्वन्ति । ततो 3 भीता वा भोगिकस्य वा भयेन द्वारमूले 'संहरन्ति' संस्तारकं स्थापयन्तीत्यर्थः । यस्तु प्रत्यनीकः सः 'एतेष्वपि' पृथिव्यादिषु कायेषु प्रक्षिपेत् , 'यद्यस्माकं न जातस्तत एतेषामपि मा भूत्' इति कृत्वा । एष पुरातनगाथासमासार्थः ॥ ४६३६ ॥ अथैनामेव व्याख्याति भोइयमादीणऽसती, अदवावेंते व बिंति जणपुरओ। मुज्झीहामों सकजे, किह लोगमयाइँ जाणंता ॥ ४६३७॥ भोगिकादीनामभावे तेषु वा संस्तारकमदापयत्सु साधवो बहुजनस्य पुरतो ब्रुवते—वयं । लोकमतानि जानन्तः स्वकार्ये कथं मुह्यामहे ?, ये हि लोकस्य नष्टं विनष्टं विस्मृतं वा जानीमस्ते कथमात्मीयं न ज्ञास्यामः? इति भावः, अतो यद्यस्माकं संस्तारकं नार्पयथ ततो वयं जनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः ॥ ४६३७ ॥ अथ यूयं न प्रतीथ ततः पश्यथपेहुणतंदुल पच्चय, भीया साहंति भोइगस्सेते ।। 18 साहत्थि साहरन्ति व, दोण्ह वि मा होउ पडिणीए ॥ ४६३८ ॥ तन्दुला द्विविधाः क्रियन्ते-एके पेहुणमिश्रिता अपरे केवला एव । पेहुणं नाम-मयूराङ्गगिरः । तत एकः साधुः साधूनां मध्यादपसरति गृहस्थांश्च भणति-युष्माकं मध्यादेकः किमप्युपकरणं गृहातु । ततो गृहीते सति स साधुरागत्य भणति-पतया सर्वेऽपि तिष्ठत । स्थितेषु च स नैमित्तिकसाधुरुदकं तेषामञ्जलौ ददाति, येन च साधुना तद् गृह्यमाणं दृष्टं स 20 तन्दुलान् प्रयच्छन् येन गृहीतं तस्य पेहुणमिश्रितान् ददाति, ततो नैमित्तिकसाधुस्तानि पेहुणानि दृष्ट्वा भणति-अनेन गृहीतमिति । एवं प्रत्यये उत्पन्ने भीताश्चिन्तयन्ति–नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति । एवं विचिन्त्य खहस्तेन प्रतिश्रयद्वारमूले संस्तारकं स्थापयन्ति । प्रत्यनीका वा 'द्वयोरपि वर्गयोः' अस्माकममीषां च मा भूदिति बुद्ध्या एतेषु गत्वा संहरन्ति ॥ ४६३८ ॥ पुढवी आउकाए, अगड वणस्सइ-तसेसु साहरइ । [ओ.नि. २७४] चित्तूण य दायव्यो, अदिट्ठ दड्ढे य दोचं पि ॥ ४६३९ ॥ कश्चित् प्रत्यनीकः साधुसामाचारीकोविदः 'सचित्तपृथिव्यप्काय-वनस्पति-त्रसेषु प्रक्षिप्तं न ग्रहीष्यन्ति' इति बुद्ध्या तेषु 'अगडे वा' गर्तायां प्रक्षिपति । यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारकखामिनो दातव्यः । अथ प्रयत्नेन गवेषितोऽपि न कुत्रापि दृष्टः, यद्वा स 30 प्रत्यनीकतया तेन दग्धः ततः "दोचं पि" ति द्वितीयमपि वारमवग्रहमनुज्ञापयेत् ॥ ४६३९॥ परः प्राह-यथाऽहं भणामि तथा द्वितीयावग्रहोऽनुज्ञापनीयः । कथम् ? इति चेद १ न समर्पय भा० ॥ २ °रपि' अस्मा भा० ॥ ३°पु संह° डे० का० ॥ . 93 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444