Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 384
________________ १२४९ 10 भाष्यगाथाः १६२१-३०] तृतीय उद्देशः । भवति :-मन्यु:-क्रोधस्तत्प्रहरणाः-तदायुधा एव ऋषयः, ततस्तेषां ह्रियमाणमिह-परलोकयोः सुतरामहितं भवति ॥ ४६२५ ॥ एवमप्युक्तो यदि न दद्यात् ततः खंते व भूणए वा, भोइग-जामाउगे असइ साहे। सिम्मि जं कुणइ सो, मग्गण दाणं व ववहारे ॥ ४६२६ ॥ "खंते" ति पिता तेन गृहीते पुत्रस्य निवेद्यते । भ्रूणकः-पुत्रस्तेन गृहीते पिता प्रज्ञाप्यते ।। यद्वा या तस्य · 'भोजिका' भार्या यो वा जामाता ताभ्यामसौ भाणयितव्यः । “असइ साहे" त्ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निवेद्यते । तस्य 'शिष्टे' कथिते यदसौ महत्तरादिः करोति तत् प्रमाणम् । एवं प्रणष्टस्य संस्तारकस्य मार्गणम् । एवमप्यलभ्यमाने प्रान्तस्य संस्तारकखामिनः “दाणं" ति वेतनं दीयते, व्यवहारो वा करणं प्रविश्य कर्तव्य इति सङ्घहगाथासमासार्थः ॥ ४६२६ ॥ अथैनामेव विवृणोति __ भूणगगहिए खंतं, भणाइ खंतगहिते य से पुतं । असति ति न देमाणे, कुणति दवावेति व न वा उ ॥४६२७ ॥ भ्रूणकेन गृहीतं 'खन्तं' पितरं 'भणति' प्रज्ञापयति । खन्तेन तु गृहीते "से" तस्य पुत्रं भणति । उपलक्षणमिदम् , तेन भोजिकादिनाऽपि भाणयति । "असइ" ति एतद् ग्रहणपदम् अतो व्याचष्टे-"न देमाणे" त्ति एवमप्यददाने भोजिकादेर्निवेद्यते । ततो यदसौ बन्धन-15 रोधनादि करोति दापयति वा न वा तत् प्रमाणम् ॥ ४६२७॥ भोइय उत्तरउत्तर, नेयव्वं जाव पच्छिमो राया। दाणं विसजणं वा, दिहमदिढे इमं होइ ॥ ४६२८ ॥ प्रथमं भोगिकस्य निवेद्यते । यद्यसौ न दापयति ततो यस्तत्र देशारक्षकः स ज्ञाप्यते । एवमुत्तरोत्तरं तावद नेतव्यम् यावदपश्चिमो राजा । ततो "दाणं" ति भोजिकादयश्चौरसकाशाद 20 गृहीत्वा साधूनां संस्तारकं दद्युः । “विसजणं व" ति यद्वा ते भोगिकादयो भणेयुः-गच्छत यूयम्, वयं संस्तारकं संस्तारकखामिनः समर्पयिष्याम इति । एष विधिदृष्टे संस्तारकस्तेनके मन्तव्यः । अदृष्टे 'इदं' वक्ष्यमाणं भवति ॥ ४६२८ ॥ अथैनामेव गाथां व्याचष्टे खंताइसिट्टऽदिते, महतर किच्चकर भोइए वा वि । देसारक्खियऽमच्चे, करण निवे मा गुरू दंडो॥ ४६२९ ॥ "खंत" त्ति पिता तदादीनामनन्तरोक्तनीत्या शिष्टे-कथितेऽप्यददाने 'महत्तरस्य' ग्रामप्रधानपुरुषस्य कथयन्ति । 'कृत्यकरः' ग्रामकृत्ये नियुक्तः 'भोगिकः' ग्रामखामी तयोर्वा कथयन्ति । 'देशारक्षकः' महाबलाधिकृतः 'अमात्यः' राजमन्त्री तयोर्वा यथाक्रमं निवेद्यते । तथाऽप्यददाने करणेऽपि निवेदयन्ति । नृपस्य तु न निवेद्यते, 'गुरुः' गरीयान् सर्वस्वहरणादिको दण्डो भवेदिति कृत्वा ॥ ४६२९ ॥ 30 एए उ दवावेंती, अहव भणेजा स कस्स दायव्यो । अमुगस्स त्ति य भणिए, वचह तस्सऽप्पिणिस्सामो ॥ ४६३०॥ १°म्मि य जं कुणई, सो मग्गण दाण ववहारे ताभा० विना ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444