Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
१२५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [शय्या० प्रकृते सूत्रम् २४ 'एते' भोगिकादयो यदि दापयन्ति ततो लष्टम् । अथवा ते भणेयुः-स संस्तारकः कस्य दातव्यः ? इति; ततः साधुभिः 'अमुकस्य' इति भणिते ते ब्रुवते-बजत यूयम् , वयमेव तस्यार्पयिष्याम इति ॥ ४६३० ॥
जति सिं कजसमत्ती, वयंति इहरा उ घेत्तु संथारं ।
दिट्टे जाते चेवं, अदिट्ठऽणाए.इमा जयणा ॥ ४६३१ ॥ यदि "सिं" तेषां साधूनां तेन संस्तारकेण कार्यसमाप्तिः सञ्जाता मासकल्पश्च पूर्णस्ततो भोगिकादिभिर्विसर्जिता व्रजन्ति, 'इतरथा' संस्तारककार्येऽसमाप्तेऽपूर्णे मासकल्पे तं वाऽन्यं वा संस्तारकं गृहीत्वा परिभुञ्जते । एवं दृष्टे संस्तारके ज्ञाते वा स्तेने विधिरुक्तः । अदृष्टेऽज्ञाते
चेयं यतना भवति ॥ ४६३१ ॥ 10
विजादीहि गवेसण, अद्दिटे भोइयस्स व कधेति ।
जो भद्दओ गवसति, पंते अणुसढिमाईणि ॥ ४६३२ ॥ विद्यादिभिः संस्तारकस्तेनस्य गवेषणा कर्तव्या । अथ न सन्ति विद्यादयस्ततोऽदृष्टेऽज्ञाते स्तेने भोगिकस्य कथयन्ति । ततो यो भद्रको भवति स खयमेव गवेषयति, यस्तु प्रान्तः स
खयं न गवेषयति, ततस्तत्रानुशिठ्यादीनि पदानि प्रयोक्तव्यानि ॥ ४६३२ ॥ 15 एषा पुरातनगाथा, अत एनां व्याख्यानयति
आभोगिणीय पसिणेण देवयाए निमित्ततो वा वि ।
एवं नाए जयणा, स चिय खंतादि जा राया ॥ ४६३३ ॥ आभोगिनी नाम विद्या सा भण्यते या परिजपिता सती मानसं परिच्छेदमुत्पादयति, सा यद्यस्ति ततस्तया येन संस्तारको गृहीतः स आभोग्यते । एवं 'प्रश्नेन' अङ्गुष्ठ-स्वप्नप्रश्नादिना, 20 देवतया वा क्षपकपृष्टया, निमित्तेन वा अविसंवादिना तं स्तेनं जानन्ति । एवं ज्ञाते सति सैव यतना कर्त्तव्या या खन्तादिगृहीते संस्तारके भणिता यावदपश्चिमो राजा ॥ ४६३३ ॥ एतेषामभावे विधिमाह
विजादऽसई भोयादिकहण केण गहिओ न जाणऽम्हे ।
दीहो हु रायहत्थो, भद्दो आम ति मग्गति य ॥ ४६३४ ॥ 25 विद्यादीनामभावे न ज्ञायते केनापि गृहीत इति ततो भोगिकादीनां कथयन्ति-संस्तारकोऽस्माकं नष्टो वर्तते, यूयं तं गवेषयत । भोगिकः प्राह-केन गृहीतः ? । साधवो ब्रुवतेन जानीमो वयम् । भोगिकः प्राह-अज्ञायमानं कथं गवेषयामि ? । साधुभिर्वक्तव्यम्-----दी? हि राजहस्तो भवति, तेन हि गवेष्यमाणः सुखेनैव स्तेनः प्राप्येत । ततो यो भद्रको भवति
सः 'आम' सत्यमिदम् इति भणित्वा मार्गयति ॥ ४६३४ ॥ प्रान्तः पुनरिदमाह30
जाणह जेण हडो सो, कत्थ विमग्गामि णं अजाणतो।
इति पंते अणुसट्ठी-धम्म-निमित्ताइ तह चेव ॥ ४६३५ ॥ यः प्रान्तः स ब्रूयात्- 'जानीत यूयं येनासौ संस्तारको हृतः, अजानानस्तु कुत्राहं मार्ग१ तादिसु तहेव ताभा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444