Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 381
________________ १२४६ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ शय्या० प्रकृते सूत्रम् २४ यानि तृणानि पुञ्जाद् गृहीतानि तानि पुञ्जेष्वेव निक्षेपणीयानि, यानि पार्श्वतस्तानि पार्श्वे स्थापनीयानि, एवं तृणेषु विकरणं भवति । फलकं यतो गृहीतं तत्रैव नीत्वा यदि पार्श्वतः स्थापितमासीत् तदा पार्थे, अथोचं स्थापितमासीत् तत ऊर्द्ध स्थाप्यते । कम्बिका अपि यतो गृहीतास्तत्र बन्धान् छोटयित्वा निक्षेपणीयाः । अथ व्याघातेन तत्र नेतुं न पार्यन्ते तदा तत्रैव 5 स्थापयित्वा नियमाद् विकरणं कुर्यात् ॥ ४६१३ ॥ बितियमहसंथडे वा, देसुट्ठाणादिसू व कजेसु । एएहिँ कारणेहिं, सुद्धो अविकरणकरणे वि ॥ ॥ ४६१४ ॥ द्वितीयपदे यथासंस्तृते विकरणं न कुर्यात् न च प्रायश्चित्तमाप्नुयात् । यथासंस्तृतं नामनिष्प्रकम्पं चम्पकपट्टादि । 'देशोत्थानादिषु वा' पूर्वसूत्रोक्तेषु कार्येषु विकरणं न कुर्यात् । 10 एतैः कारणैरविकरणकरणेऽपि शुद्धः ॥ १६१४ ॥ सूत्रम् इह खलु निग्गंथाण वा निग्गंथीण वा पाडिहारिए वा सागारियसंतिए वा सेजासंथारए विप्पणसिज्जा से य अणुगवेसियवे, सिया से अ अणुगवेस्समाणे लभेज्जा तस्सेव पडिदायव्वे, सिया से अ अणुगवेस्समाणे नो लभिजो एवं से कप्पइ दोचं पि उग्गहं अणुन्नवित्ता परिहारं परिहरित्तए २४ ॥ अथास्य सम्बन्धमाह दोण्हेगयरं नटुं, गवेसियं पुव्वसामिणो देति ।। अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥ ४६१५ ॥ ___ 'द्वयोः' प्रातिहारिक-सागारिकसत्कयोः परिशाट्यपरिशाटिनोर्वा संस्तारकयोरेकतरं संस्तारकं नष्टं गवेषयित्वा पूर्वखामिनः प्रयच्छन्ति, अतः 'अहृते' अनष्टेऽप्रमादार्थ हृते च गवेषणादिसामाचारीप्रदर्शनार्थमस्य सूत्रस्यारम्भः क्रियते ॥ ४६१५ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'इह' अस्मिन् मौनीन्द्रे प्रवचने स्थितानां 'खलुः' 25 वाक्यालङ्कारे निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारकः 'विप्रणश्येत्' विविधैः प्रकारैः प्रकर्षेण रक्ष्यमाणोऽपि नश्येत् , स च 'अनुगवेषयितव्यः' विप्रणाशानन्तरं पृष्ठत एव गवेषयितव्यः । 'स्याद्' भवेत् स चानुगवेष्यमाणो लभ्येत तस्यैव संस्तारकखामिनः 'प्रतिदातव्यः' प्रत्यर्पणीयः । स्यात् स चानुगवेष्यमाणो नो लभ्येते १°जा कप्पइ से दोच्चं भा० । एतदनुसारेणैव भा. टीका । दृश्यतां टिप्पणी २॥ २°त ततः कल्पते "से" तस्य 'द्वितीय भा० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444