________________
१२४६
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ शय्या० प्रकृते सूत्रम् २४ यानि तृणानि पुञ्जाद् गृहीतानि तानि पुञ्जेष्वेव निक्षेपणीयानि, यानि पार्श्वतस्तानि पार्श्वे स्थापनीयानि, एवं तृणेषु विकरणं भवति । फलकं यतो गृहीतं तत्रैव नीत्वा यदि पार्श्वतः स्थापितमासीत् तदा पार्थे, अथोचं स्थापितमासीत् तत ऊर्द्ध स्थाप्यते । कम्बिका अपि यतो गृहीतास्तत्र बन्धान् छोटयित्वा निक्षेपणीयाः । अथ व्याघातेन तत्र नेतुं न पार्यन्ते तदा तत्रैव 5 स्थापयित्वा नियमाद् विकरणं कुर्यात् ॥ ४६१३ ॥
बितियमहसंथडे वा, देसुट्ठाणादिसू व कजेसु ।
एएहिँ कारणेहिं, सुद्धो अविकरणकरणे वि ॥ ॥ ४६१४ ॥ द्वितीयपदे यथासंस्तृते विकरणं न कुर्यात् न च प्रायश्चित्तमाप्नुयात् । यथासंस्तृतं नामनिष्प्रकम्पं चम्पकपट्टादि । 'देशोत्थानादिषु वा' पूर्वसूत्रोक्तेषु कार्येषु विकरणं न कुर्यात् । 10 एतैः कारणैरविकरणकरणेऽपि शुद्धः ॥ १६१४ ॥ सूत्रम्
इह खलु निग्गंथाण वा निग्गंथीण वा पाडिहारिए वा सागारियसंतिए वा सेजासंथारए विप्पणसिज्जा से य अणुगवेसियवे, सिया से अ अणुगवेस्समाणे लभेज्जा तस्सेव पडिदायव्वे, सिया से अ अणुगवेस्समाणे नो लभिजो एवं से कप्पइ दोचं पि उग्गहं
अणुन्नवित्ता परिहारं परिहरित्तए २४ ॥ अथास्य सम्बन्धमाह
दोण्हेगयरं नटुं, गवेसियं पुव्वसामिणो देति ।।
अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥ ४६१५ ॥ ___ 'द्वयोः' प्रातिहारिक-सागारिकसत्कयोः परिशाट्यपरिशाटिनोर्वा संस्तारकयोरेकतरं संस्तारकं नष्टं गवेषयित्वा पूर्वखामिनः प्रयच्छन्ति, अतः 'अहृते' अनष्टेऽप्रमादार्थ हृते च गवेषणादिसामाचारीप्रदर्शनार्थमस्य सूत्रस्यारम्भः क्रियते ॥ ४६१५ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या-'इह' अस्मिन् मौनीन्द्रे प्रवचने स्थितानां 'खलुः' 25 वाक्यालङ्कारे निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारकः 'विप्रणश्येत्' विविधैः प्रकारैः प्रकर्षेण रक्ष्यमाणोऽपि नश्येत् , स च 'अनुगवेषयितव्यः' विप्रणाशानन्तरं पृष्ठत एव गवेषयितव्यः । 'स्याद्' भवेत् स चानुगवेष्यमाणो लभ्येत तस्यैव संस्तारकखामिनः 'प्रतिदातव्यः' प्रत्यर्पणीयः । स्यात् स चानुगवेष्यमाणो नो लभ्येते
१°जा कप्पइ से दोच्चं भा० । एतदनुसारेणैव भा. टीका । दृश्यतां टिप्पणी २॥ २°त ततः कल्पते "से" तस्य 'द्वितीय भा० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org