________________
१२४२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ शय्या० प्रकृते सूत्रम् २२
श व्या सं स्ता र क प्र कृ त म् सूत्रम्
नो कप्पति निग्गंथाण वा निग्गंथीण वा पाडिहारियं
सिज्जा-संथारयं आयाए अपडिहटु संपव्वएत्तए २२॥ 5- अस्य सूत्रस्य कः सम्बन्धः ? इत्याह
अविदिण्णमंतरगिहे, परिकहणमियं पदिण्णमिइ जोगो ।
णिग्गमणं व समाणं, बहिं व वुत्तं इमं अंतो ॥ ४५९८ ॥ अन्तरगृहे यत् 'परिकथनम्' उपदेशप्रदानं तद् 'अवितीर्ण' तीर्थकरैर्गृहपतिना वा नानुज्ञातम् । 'इदमपि' प्रातिहारिकशय्या-संस्तारकस्याप्रत्यर्पणम् 'अदत्तम्' अननुज्ञातम् “इति' अयं 10 'योगः' सम्बन्धः । यद्वा निर्गमनं प्रतिश्रयाद् द्वयोरपि सूत्रयोः 'समानं' तुल्यम् । अथवा
पूर्वसूत्रे प्रतिश्रयाद् ‘बहिः' भिक्षायां निर्गतस्य धर्मकथनं न कल्पते इत्युक्तम् , इदं पुनः 'अन्तः' प्रतिश्रयमध्ये संस्तारकस्य यद् निक्षेपणं तन्न कल्पते इत्यत्र प्रतिपाद्यते ॥ १५९८ ॥ । अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रतिहरणं प्रतिहारः-प्रत्यर्पणं तमहतीति प्रातिहारिकं शय्या च-सर्वाङ्गीणा संस्तारकः-अर्धतृतीयहस्त15 मानः शय्या-संस्तारकं तद् 'आदाय' गृहीत्वा कार्यसमाप्तौ 'अप्रतिहृत्य' प्रत्यर्पणमकृत्वा 'सम्प्रवर्जितुं' नामान्तरं विहर्तुमिति सूत्रार्थः ।।
1 अथ भाष्यविस्तरः-- सिजा संथारो या, परिसाडी अपरिसाडि मो होइ । [नि. १३०१-९]
परिसाडि कारणम्मि, अणप्पिणे मासों आणादी ॥ ४५९९ ।। शय्या संस्तारको वा परिशाटी अपरिशाटी च भवति । परिशाटी तृणादिमयः, अपरिशाटी 20 फलकादिमयः । तत्र परिशाटीसंस्तारकः कारणवशाद् ऋतुबद्धे गृहीतो भवेत् तं मासकल्पे पूर्णेऽनर्पयित्वा व्रजतो मासलघु आज्ञादयो दोषाः ॥ ४५९९ ॥ एते चापरे
सोचा गत त्ति लहुगा, अप्पत्तिय गुरुग जं च वोच्छेओ।
कप्पट्ट खेल्लणे णयण डहण लहु लहुग गुरुगा य ॥ ४६००॥ संस्तारकखामिना श्रुतम्-संस्तारकमनर्पयित्वा गतास्ते संयताः; एवं श्रुत्वा यदि प्रीतिकं 25 करोति-'अनर्पितेऽप्यनुग्रह एवास्माकम्' इति ततश्चतुर्लघवः । अथाप्रीतिकं करोति-मदीयानि
तृणानि हारितानि विनाशितानि वा इति तदा चतुर्गुरवः । यच्च तद्रव्यस्यान्यद्रव्यस्य वा व्यवच्छेदस्तदाऽपि चतुर्गुरुकम् । अथवा तस्मिन् संस्तारके शून्ये "कप्प?" त्ति बालकानि खेलन्ते ततो मासलघु, अथान्यत्र तं नयन्ति ततश्चतुर्लघु, अथाग्नौ प्रक्षिप्य दहन्ति चतुर्लघवः, दह्यमाने च तस्मिन्नन्येषां प्राणजातीयानां विराधना भवेत् तन्निष्पन्नं प्रायश्चित्तम् ॥ ४६०० ॥ 30 अथाप्रीतिकपदं व्याचष्टे
१°जितुमिति सूत्रसमासार्थः भा० ॥ २ » एतदन्तर्गतः पाठः भा० का० एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org